प्रशासने अगन्तुं शक्यते चेत् शिखावृत्तिना सह प्रतिदास्यामः - निर्वाचनायोगं प्रति मयावती।
लख्नौ> निर्वचनप्रचारणस्य काले आत्मानं विरुद्ध्य ४८ होरात्मकस्य निवारणं प्रख्यापितस्य निर्वाचनायोगस्य प्रक्रमान् विरुद्ध्य बी एस् पि नेतृणी मायावती रोषाकुला अभवत्। निर्वाचन नियमान् उल्लङ्घितवती इति उक्त्वा आसीत् आयोगस्य प्रक्रमः। निर्वाचननियमान् उल्लङ्ख्य वेदिकासु प्रभाषं कृतवान् इत्यनेन यूपि मुख्यमन्त्रिणे योगीने आदित्यनाथाय निर्वाचन प्रचारणात् ७२ होरात्मकं निवारणम् आयाेगेन प्रख्यापितम् आसीत्I आयोगस्य निर्णयः पक्षावलम्बितः इति मायावत्या उक्तम्। प्रशासने अगन्तुं शक्यते चेत् शिखा वृत्तिना सह प्रतिदास्यामः इति मायावत्या उक्तम्।