अबुदाबिदेशे पुरातनानि ग्रामावशिष्टानि सन्दृष्टानि।
अबुदाबि> अबुदाबि नगरात् १६० किलोमीट्टर् पश्चिमभागे मिर्फ द्वीपस्य समीपे पुरातनानां ग्रामाणाम् अवशिष्टानि संदृष्टानि। शिलायुगकालस्य इति विचिन्त्यमानेषु अवशिष्टेषु गृहाणां तथा जनाः मिलित्वा उषितानां च प्रमाणानि उपलब्धानि। 6500 तः 8000 संवत्सराणां पुरातनत्वम् अस्य ग्रामस्य अस्ति इति मन्यते। समृद्धस्य भूतकालस्य विशिष्टभागाः एव इदानीम् उपलब्धाः इति अबुदाबि विनोदसञ्चार सांस्कृतिक-विभागाध्यक्षः मुहम्मद्अल्- मुबारकः अवदत्।
यु ए ई जनानां महत्तमं पैतृकमधिकृत्य पौराणां ज्ञानाय ईदृशानुसन्धानानि आवश्यकानि। शिलानिर्मितं शक्तं गृहमासीत् एतेषाम्। मत्स्याहारिणानाम् एतेषाम् आयुः ३० तः ५० संवत्सरपर्यन्तमासीत् इति अनुमीयते इत्यपि मुबारकः अवदत्I