नरेन्द्रमोदिने यू ए ई राष्ट्रस्य 'साईद्' पुरस्कारः।
अबुदाबी > युए ई राष्ट्रस्य परमोन्नतबहुमतिः साईद् नामकः भारतस्य प्रधानमन्त्रिणे नरेन्द्रमोदिने दीयते। सविशेषप्रवर्तनानि कुर्वद्भ्यः राष्ट्रनेतृभ्यः यू ए ई राष्ट्रपतिना शैख् खलीफा बिन् साईद् अल् नह्यानेन दीयमानः पुरस्कारः भवत्येषः। अनेन पुरस्कारेण आद्रियमाणः प्रथमः भारतीयनेता भवति नरेन्द्रमोदिः।
उभयराष्ट्रबन्धस्य शक्तीकरणे मोदिनः योगदानं श्लाघनीयमिति पुरस्कारप्रख्यापनं कुर्वन् यू ए ई राष्ट्रस्य उत्तराधिकारी तथा उपसर्वसैन्याधिपः शैख् मुहम्मद् बिन् सईद् अल् नह्यानः अवदत्। २०१६तम संवत्सरस्य भारतगणतन्त्रदिनाघोषे शैख् मुहम्मदः मुख्यातिथिः आसीत्।