द्वितीयसोपाने मतदानं ६६%!
नवदिल्ली > गुरुवासरे सम्पन्ने भारतलोकसभानिर्वाचनस्य द्वितीयसोपाने प्रतिशतं षड्षष्टि जनाः मतदानाधिकारं विनियुक्तवन्तः इति निर्वाचनायोगस्य वरिष्ठः उपायुक्तः उमेष् सिंहः निगदितवान्। ११ राज्येषु तथा केन्द्रशासनप्रदेशे पुतुश्शेर्यां च ९५ लोकसभामण्डलेषु निर्वाचनं सम्पन्नम्।
बीहार्, उत्तरप्रदेशः, महाराष्ट्रं, जम्मुकाश्मीरः, ओडीषा इत्येतेषु राज्येषु मतदानविनियोगः न्यूनमासीत्। तमिल् नाट् राज्ये ३८ मण्डलेषु निर्वाचनं सम्पन्नम्। तत्रस्थस्य वेल्लूर् मण्डलस्य निर्वाचनं आर्थिकं व्यवहारनियमलङ्घनमारोप्य निरस्तमासीत्।
विविधराज्येषु मतदानप्रक्रिया प्रतिशतरूपेण - वंगः - ७५.२७, मणिप्पुरं - ७५.६९, असमः - ७३.३१, पुतुश्शेरी - ७२.४०, छत्तीसगढ - ६८.७०, कर्णाटकं - ६७.६७, तमिल्नाट् - ६१.५२, बीहार् - ५८.१४, उत्तरप्रदेशः - ५८.१२, ओडीषा - ५७.४१, महाराष्ट्रं - ५५.३७, जम्मुकाश्मीरः - ४३.३७।