न्याया. पि सि घोष् प्रथमः लोकपालः भवेत्।
नवदिल्ली > सर्वोच्चन्यायालयस्य भूतपूर्वः न्यायाधिपः न्याय. पिनाकी चन्द्र घोषः भारतस्य प्रथमः लोकपालः भविष्यतीति सूचना। पि सि घोषस्य नाम प्रधानमन्त्रिणः आध्यक्ष्ये वर्तमानस्य निर्वाचनसमितेः सजीवपरिगणनायामस्तीति अधिकृतैरुक्तम्। किन्तु अस्मिन् विषये सर्वकारस्य प्रख्यापनं नागतम्। इदानीं राष्ट्रिय मानवाधिकारायोगे अङ्गेषु अन्यतमः पि सि घोषः २०१७ मईमासे सर्वोच्चनीतिपीठात् निवृत्तः अभवत्।