ओडिशा/वनं रक्षणाय पञ्चसप्ततिः महिलाभि: समूहः निर्मितः, विंशतिः वर्षेभ्यः रक्षाकार्यं कुर्वत्यः सन्ति—
-साक्षी चौरसिया
पुरीस्थितायां महानदी-डेल्टायां पञ्चसप्ततिः प्रहलपरिमितं क्षेत्रं प्रसरित मैंग्रोव-वनं रक्षणाय अभियानं प्रवर्तितम् । प्रतिदिनं वारद्वयं अन्वीक्षणाय दण्डं स्वीकृत्य वनमागत्य महिलाः सीटिकावादनमपि कुर्वन्ति, सङ्कटम् अनुमीयते सति दूरभाषमाध्यमेन अन्यान् जनानपि आह्वयन्ति।
भुवनेश्वर् > ओडिशायाः पुर्यां पञ्चसप्ततिः महिलाः गतविंशतिः वर्षेभ्यः मैंग्रोव-वनं रक्षणाय अभियाने सङ्लग्नाः सन्ति। झंझावातानन्तरं वृक्षाणां महत्त्वं ज्ञायते। 1999तमे वर्षे ओडिशायाम् एकं सुपरसाइक्लोन इत्याख्य: चक्रवात: आगत: आसीत्। बहूनि गृहाणि, अन्नानि च नष्टानि जातानि। जनाः बहुकष्टम् अनुभूतवन्तः। जनाः ज्ञातवन्तः यत् तेषां जीवनं वृक्षैः (मैंग्रोव वनेनैव) सुरक्षितम् अस्ति। कस्मिंश्चिदपि मूल्ये वनस्य सुरक्षायाः सङ्कल्पं कृत्वा महिलाः समूहं निर्मितवत्यः।
52वर्षीया चारुलता बिस्वालः कथयति यत् —“भारतं पुनश्च अन्यदेशाः चक्रवातस्य विषये जानन्ति। एतेन गृहऽन्नादि नष्टाः जाताः। मृदपि कट्वभवत्। वनस्य महत्त्वं ज्ञातवन्तः। 2001 तमे वर्षे गुंडाबेलायाः सप्ततिः महिलाभिः वनरक्षा-समितिः निर्मिता। प्रत्येक-गृहतः महिलानां प्रतिभागमासीत्। एताः प्रतिदिनं कार्याणि समाप्य ग्रामं ग्रामं गत्वा वनरक्षायाः लाभान् सम्बोधयन्ति। वनतः काष्ठानि नेतुं दिनमेकं सुनिश्चितं कुर्युः, एवं वनस्यापि रक्षणं भविष्यति पुनश्चास्माकं समयोऽपि अधिकं नागमिष्यति।
वनविशेषज्ञा रहीमा बीबी कथयति यत्— मैंग्रोव वने कसूरियाना नाम्ना वृक्षोऽस्ति यः मृदां संरक्षति तथा च वायोः आर्द्रतां नष्टं भवितुं रक्षति। एतेन सम्पूर्ण-जैव-विविधता प्रभाविता भवति।
महिलाभि: गत-वर्षेषु ये वृक्षाणां अवैधरूपेण हननं कुर्वन्ति ते निगडने अधिग्रहीता:। महिलाभिः अपराधिनः दण्डिताः अपि। आवश्यकतायै अधुना समूहस्य महिलानां पार्श्वे दूरभाषमपि वर्तते। प्रश्नेऽस्मिन् यत् महिलाः वने भयं नानुभवन्ति किल ?, बिस्वालः वदति यत् वनं तु अस्माकं गृहसदृशम् अस्ति। वृक्षाः अस्माकं बालाः। कोऽपि अस्माकं बालानां हननं करिष्यति, कथं द्रष्टुं शक्नुमः वयम्। वृक्षैः सह अस्माकं सम्बन्धः माता-पुत्रवत् अस्ति।