भारतेन निर्मितानि तेजस् युद्धविमानानि साभिमानं मलेष्याराष्ट्रे।
-बिजिलाकिषोरः
क्वालालंपुर्> भारतेन निर्मितानि तेजस् नाम लघुयुद्धविमानानि मलेष्याराष्ट्रे प्रदर्शनाय सज्जीकृतानि।लड्कावि अन्ताराष्ट्र मारिटैं आन्ट् एय्रोस्पेस् इति प्रदर्शने लोकश्रद्धामावेक्ष्यन्ते इति प्रतीक्षा। कदाचित् मलेष्यासर्वकारेणेदं स्वायत्तीक्रियेत इति विश्वासः। विमानद्वयस्य प्रदर्शनार्थं पञ्चाशत् कुशलाः वैमानिकाः गतवन्तः।
पाकिस्थान-चीनयोः जे एफ् १७, दक्षिण-कोरियेन निर्मितम् एफ्/ ए ५० विमानेनसाकं तेजस् अपि मलेष्याराष्ट्रेण क्रेष्यन्ते। भारतात् ३५० अङ्गयुक्तातानि संघानि एल् ऐ एं एप्रदर्शनार्थं गतवन्तः।