संस्कृताभियानम्
प्रा. डा. सि. जि. विजयकुमारः,
डीन्, कविकुलगुरु कालिदास विश्वविद्यालयः, महाराष्ट्रम्।
नमांसि, व्याकरणमहाभाष्ये प्रथमाह्निके पतञ्जलि:" संस्कृतं सर्वेषु प्रदेशेषु अपि व्यवहारे आसीत्" इति वदन् केचन शब्दा: तावत् तत्तत्प्रदेशे एव आधिक्येन प्रचारे आसन् इति स्पष्टं निर्दिशति-'एतस्मिन्श्चातिमहति शब्दस्य प्रयोगविषये ते ते शब्दा: तत्र तत्र नियतविषया: दृश्यन्ते' इति। तद्यथा - शवतिर्गतिकर्मा काम्बोजेष्वेव भषितो भवति, विकार एनामार्या भाषन्ते शव इति। हम्मति: सुराष्ट्रेषु, रंहति: प्राच्यमध्येषु, गमिमेव तु आर्या: प्रयुञ्जते। दातिर्लवनार्थे प्राच्येषु, दात्रम् उदीच्येषु।' गच्छति' इति वक्तुं कम्बोजा: 'शवति' इति वदन्ति स्म सौराष्ट्रा:' हम्मति' इति प्राच्यमध्या: ' रंहति' इति च प्रयोगं कुर्वन्ति स्म। केवलं भाषितभाषासु पर्यायशब्दा: तत्तत्प्रदेशे रूढा: भवन्ति, न तु ग्रान्थिकभाषायाम्। किञ्च ' काम्बोजेष्वेव भाषितो भवति' इति वाक्ये पतञ्जलि: 'भाषितो भवति' इति प्रयुक्तवान् (भाष् - व्यक्तायां वाचि) न तु पठितो भवति, लिखितो भवतीति वा। मित्राणि, एतस्मात् वयम् अवगन्तुं शक्नुम: यत् संस्कृतं बहुत्र व्यवहारभाषा आसीत् इति।
संभाषणचित्रं- अभिनव पिल्लै - सेन्ट् मेरीस् यू पि विद्यालयः - कोच्ची। |