द्वे युद्धविमाने नियन्त्रण रेखाम् उपागच्छताम्।
नवदिल्ली> मङ्गलवासरे रात्रौ पाकिस्थानस्यय- द्वे युद्धविमाने नियन्त्रण रेखाम् उपागच्छताम् इत्यावेदनम्। घटनायाः पृष्ठभूमौ भारतस्य प्रतिरोधसंविधानानि पूर्ण रूपेण सज्जीकृतानि सन्ति। पाक्अधीनस्य काश्मीरस्य पूञ्च्-मण्डले नियन्त्रण-रेखायाः दशकिलोमिट्टर् समीपे पाक् विमाने समुपागच्छताम् इति भारतसेनया निरीक्षितम्। अतः प्रतिध्वनिग्राही प्रतिरोधायुधानि च सज्जीकृत्य सैनिकाः सीमनि एव तिष्ठन्ति।