सीमनि पाकिस्थानेन सैनिकविन्यासः क्रियते।
नवदिल्ली > सिन्धूध् प्रविश्यायां हैदराबाद् प्रदेशतः स्कर्दु पर्यन्तं विस्तृते पश्चिम-सीमनि पकिस्थानेन महान् सैनिकविन्यासः क्रियते इत्यस्ति नूतनावेदनम्। प्रतिध्वनिग्राह्यादि सुविधा द्वारा भवति सैनिकविन्यासः। एफ् -१६ इति युद्घविमानानि पूर्वसीमा मण्डलेषु विस्तारितं इति द्योतकानि उपग्रह चित्राणि उपलब्धानि सन्ति। भारतात् आक्रमणानि स्युः इति भीत्या भवति पाकिस्थानस्य इदानीन्तन प्रक्रमस्य कारणम्। भारतसैनिकाः अपि नियन्त्रणरेखायां घटीबद्धाः भूत्वा तिष्ठन्तः सन्ति। व्योमाक्रमण-सम्भाव्यता परिगणय्य भवति इयं सज्जता इत्यस्ति विवरणम् ।
जैष्-ए मुहम्मदादीनां आतङ्क सङ्घटनानाम् आक्रमणानि च स्युः इति बाैद्धिकदलीयाः पूर्वसूचना प्रदत्तवन्तः इति च सैनिकसज्जतायै भारतं प्रेरितम्।*प्रतिध्वनिग्राही- radar