विजय मल्लः भारताय प्रतिदीयते।
लण्टन् > नवसहस्रं कोटिरूप्यकाणां ऋणवञ्चनां कृत्वा विदेशं प्रस्थितः मदिरासम्राजं विजय् मल्ल्या नामकं भारतं प्रतिगमयितुं ब्रिटेन राष्ट्रेण निर्णीतम्। एतद्विषयके आदेशे ब्रिटीष् गृहमन्त्री साजिद् जावेदः हस्ताक्षरमकरोत्।
मल्ल्यः प्रत्यर्पयितव्यः इत्यपेक्ष्य एस् बि ऐ अभिव्याप्य भारतीयवित्तकोशानां समूहः ब्रिट्टनं प्रति याचिकां समर्पयति स्म। तदनुसारमेवायं पदक्षेपः।