संस्कृतं सर्वासां भाषाणां जननी - राजस्थानस्य मुख्यमन्त्री।
जयपुरम्> संस्कृतभाषा संरक्षणीया तदर्थं प्रचारणीया यत् संस्कृतं सर्वासां भाषाणां जननी वर्तते। भारते विद्यमानाः सर्वाः भाषाः संस्कृतपदानि स्वीकृत्य सम्पुष्टा जाताः। अतः तासां सुस्थितये संस्कृतभाषा संरक्षणीया प्रसारणीया च इति राजस्थानस्य मुख्यमन्त्रिणा अशोक् गेहलोटेणोक्तम्। राष्ट्रिय संस्कृत महाधिवेशनस्य उद्घाटनभाषणं कुर्वन्नासीत् अयं महोदयः। राजस्थनस्य संस्कृतशिक्षा मन्त्री डा. करणसिंहः च मञ्चस्थः आसन्।