हिस्बुल् मुजाहिद्दीन् दलाय शस्त्रवितरणाय गतवन्तौ गृहीतौ।
- डा अभिलाष् जे
कत्वा> हिस्बुल् मुजाहिद्दीन् भीकरदलायै शस्त्रवितरणाय प्रयत्नं कृतवन्तौ द्वौ आरक्षकैः गृहीतौ। शस्त्रसञ्चयं तथा एकं बृहद्यानं च गृहीतम्।निस्सार अहम्मदः, आखिब् च गृहीतौ। तयोः पार्श्वतः ८१००० रूप्यकाणि गृहीतानि। गुप्तसूचनाम् अनुसृत्य तौ द्वौ गृहीतौ इति कत्वा एस् पी श्रीधर् पाट्टीलेन उक्तम्।पञ्जाब् राज्यात् यानं आगतं तथा गृहीतौ द्वौ पुल्वामा देशवासिनौ आस्तामिति तेन उक्तम्।