नवीनभारतस्य स्वाभिमानोद्धारणम् आर्थिकारक्षणेन शक्यते- प्रधानमन्त्री।
भा ज दलस्य राष्ट्रिरियोपवेशने नरेन्द्रमोदी |
नवदिल्ली> दरिद्रेभ्यः प्रतिशतं दश इति आर्थिकारक्षणेन नवीन भारतस्य स्वाभिमानोद्धारणं शक्यते इति प्राधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। भ्रष्टाचारस्य स्पर्शलेशं विना राष्ट्रशासनं शक्यते इति स्वस्य सर्वकारेण प्रमाणीकृतम् इति तेनोक्तम्I भा ज दलस्य राष्ट्रिय सम्मेलने भाषमाणः आसीत् सः। भूतपूर्वसर्वकारः भ्रष्टाचारेण, भ्रष्टाचारारोपेण च निभृतः आसीत्l इदं प्रथमतया अस्ति भ्रष्टाचारारोपरहितः सर्वकारः। राफेल् व्यवहारे भ्रष्टाचारः नास्ति इति बालकाः अपि जानन्ति।