संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्
नमांसि, ध्येयमना: कार्यकर्ता सर्वदा एवं चिन्तयेत्- मम अनुसारं कार्यं न, अपि तु कार्यानुसारम् अहं भवेयम् इति। मम विचारानुसारम् इतरै: जीवनम्, आचरणं, कार्यं वा करणीयम् इति न, अपि तु इतरेषाम् अपेक्षानुसारम् अहं मयि परिवर्तनम् आनीय इतरेषां विचारानुगुणं व्यवहारं कुर्याम्। इतरेषां स्वरै: सह मम स्वरं योजयेयम्, इतरेषां पदै: सह मम पदे सम्मिलिते स्याताम्। मित्राणि, एतादृशं जीवनम् एव वास्तविकं ध्येयजीवनम्। तदर्थं तादृशजीवनार्थं बद्धता एव ध्येयबद्धता। जयतु संस्कृतम् जयतु भारतम् ।