राष्ट्रपतिना जिन् पिंङेन चीनसेना युद्ध-सज्जतायै आदिष्टा।
-साक्षी चौरसिया
ब्रीजिंग्> चीनदेशस्य राष्ट्रपतिना षी-जिन् पिंङेन सैन्यबलस्य परिवर्तनाय विषयेऽस्मिन् विशेष वार्ताङ्कृतम्। शुक्रवासरे तेनोक्तं यत् निजपरिवर्तित वैश्विकसम्पत् कारणेन युद्धसज्जतायाः सर्वावश्यकता पूर्णतया करणीया इति। दक्षिणचीनसागरे अमेरिक्कीयसेनायाः हस्तक्षेपः तथा च ताय्वानेन सह उद्भूते कार्यविषये च चिन्तां अवर्धयत् ।
वार्ता एजेंसी शिन्हु आनुसारेण, जिन् पिंङेन सेनायाः समक्षं वर्धितावरोधान्, सुरक्षायाः समस्याः तथा तथा सैन्यनिवेशनस्य वर्धनाय चर्चा कृता। तेनोक्तं यत् सेनाः नवयुगाय रणनीतिविषये कार्यङ्करणीयम्। तथा च युद्धस्य सज्जतायाः दायित्वमपि स्वीकरणीयम्। चीनदेशस्य "सेंट्रल मिलिट्री कम्मीषन्" इत्यस्य अध्यक्षः अपि राष्ट्रपति जिनपिंग् भवति।
वार्ता प्रदत्ता।
वार्ता प्रदत्ता।