संस्कृताभियानम् ।
-प्रा. डॉ. विजयकुमार: मेनन्
नमांसि, संस्कृतज्ञा: वयं भाविनि काले करणीयकार्यसम्बन्धे अद्य कियद् दूरपर्यन्तं द्रष्टुं शक्नुम:, तदर्थम् अद्य का: सज्जता: कुर्म: इति एषा एव दूरगामिदृष्टि: इति कथ्यते। कस्य करणेन किं भविष्यति, कस्य अकरणेन च किं भविष्यति इति परिणामं चिन्तयितुं शक्नुम: चेत् वयं परिणामदर्शिन: भवाम:। संस्कृतस्य विकासाय आगामिषु दशसु विंशत्यां च वर्षेषु किं किं करणीयं, लक्ष्यं, मार्ग:, कार्यक्रम: च के, इति एतेषां स्पष्टचित्रम् एव सा अपेक्षिता दृष्टि:। किं संस्कृतज्ञानां मध्ये एतद्विषये चर्चा भवति? मित्राणि, विविधेषु संस्कृतमञ्चेषु एतद्विषये गभीरं विचारमथनं भवेत्। जयतु संस्कृतम् जयतु भारतम् ।