२३ वस्तुनां जि.एस्.टि मानं लघूकृतम्।
नवदिल्ली > नववत्सरादारभ्य त्रयोविंशति वस्तूनां पण्यसेवनकरमानं - जि एस् टि - लघूकरिष्यति। वित्तमन्त्रिणः अरुण् जय्ट् ली वर्यस्य आध्यक्षे संवृत्ते जि एस् टि समित्युपवेशने आसीदयं निर्णयः।
२८% करदायकानि सप्त उत्पन्नानि करदायकत्वात् पूर्णतया अपाकृतानि। उच्चतमं २८%करमानं आडम्बरवस्तूनां कृते अवधीकर्तुं निर्णयमभवत्! इदानीं प्रतिशतं पञ्च इति माने करदायकानि शाकानि शीतीकृतशाकानि च करदायित्वात् अपाकृतानि।