संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्
नमस्ते, संस्कृतोज्जीवनकार्ये संस्कृतशिक्षकाणां पात्रम् अत्यन्तं निर्णायकम्। विद्यालयेषु शैक्षिकपरिवर्तनं, सामाजिकानां पाठ:, साहित्यनिर्माणम् इत्यादिषु सर्वेषु कार्येषु संस्कृतशिक्षकाणां भूमिका एव महत्वभूता। या हिब्रूभाषा 2300 वर्षाणि यावत् मृता आसीत् तस्या: पुनरुज्जीवनान्दोलनं 1880 तमे वर्षे आरब्धम्, 1925 तमवर्षपर्यन्तं सा हिब्रूभाषा सर्वदृष्टीभिः अपि व्यवहारभाषा, जीवद्भाषा जाता आसीत्। तद् 45 वर्षात्मकम् आन्दोलनं यशस्वितया हिब्रूशिक्षका: एव साधितवन्त: आसन्। मित्राणि, एवं संस्कृतान्दोलने अपि संस्कृतशिक्षका: एव सर्वकार्यसाधका:।
जयतु संस्कृतम् जयतु भारतम्।