केरले ३८६१ तत्कालिकाः बस्याननिर्वाहकाः पदविच्युताः।
अनन्तपुरी > उच्चन्यायालयस्य अन्त्यशासनमनुृत्य केरले के. एस् .आर्. टि. सि संस्थायाः एकषष्ट्यधिकाष्टशतोत्तरसहस्रं तत्कालिकरूपेण नियुक्ताः निर्वाहकाः पदविच्युताः भूताः। विच्युत्यादेशः ह्य एव सर्वानपि संस्थाविभागान् प्रति प्रापयितः।
तथा च पि.एस्.सि संस्थया नियुक्त्युपदेशं प्राप्तवद्भ्यः ४०५१ उद्योगार्थिभ्यः नियुक्त्यादेशं दातुं के . एस्.आर्.टि.सि संस्थया प्रक्रमः आरभत। किन्तु एते परिशीलनान्तरं सेवां प्रवेष्टुं मासद्वयमावश्यमिति सूच्यते।