आन्ध्रप्रदेशाय उच्चन्यायालयः स्थापितः।
हैदराबाद् > आन्ध्रप्रदेशाय नूतनम् उच्चन्यायालयं स्थापयितुं राष्ट्रपतिना विज्ञापनं घोषितम्। २०१९ जनुवरि प्रथमे दिनाङ्के उच्चन्यायालयस्य प्रवर्तनम् आरप्स्यते। न्यायमूर्तिः रमेश् रङ्गनाथः भविष्यति आन्ध्रस्य प्रथमः मुख्यन्यायाधिपः। अनेन आन्ध्रस्य तेलुङ्कानस्य च पृथक् पृथक् उच्चन्यायालयः संस्थापितः।