हिमपाते लग्नाः सञ्चारिणः सैन्येन रक्षिताः।
गाङ्टोक् > भारत-चीनासीमासमीपे तीव्रे हिमपाते लग्नाः २५०० विनोदसञ्चारिणः भारतसैन्येन रक्षिताः। पूर्वसिक्किमजनपदस्थे कस्मिंश्चित् स्थाने आसीत् गतागतस्थगनं संवृत्तम्। 'नाथुला कन्दरः' , झोङ्गोनदी इत्येतयोः स्थानयोः प्रतिनिवृत्ताः विनोदसञ्चारिणः एव यात्रामनवर्तितुम् अशक्ताः सन्तः अवर्तन्त।
भारतसैन्यं यथासमयं एतान् दुर्घटनातः संरक्ष्य सुरक्षाशिबिरं अनयदिति पूर्वसिक्किमस्य जनपदन्यायमूर्तिणा कपिल् मीना इत्यनेनोक्तम्।यावच्छीघ्रं यात्रिकान् राजधानीं प्रापयितुं पदक्षेपः कृत इति तेन निगदितम्।