पलास्तिककूपीजलं त्यजामः, आरोग्यं संरक्षामः
-बिजिलिकिषोरः
तिरुवनन्तपुरम् > जनुवरि प्रथमदिनाङ्कतः आरभ्य पलास्तिक कूप्यां विद्यमानजलं निरुद्ध्यते। काचकूप्यां जलं दातुं मलिनीकरणनियन्त्रणायोगेन निर्दिष्टम्। नियमलंघकानाम् अनुज्ञापत्रस्य निष्कासनं करिष्यतीति तैरुक्तं वर्तते। कूपीजल स्वीकरणाय आर् ओ प्लान्ट्, रिवेय्स् ओफ् मोसिस् प्लान्ट् एवं जलशू्द्धीकरणार्थं संस्थां निर्मातुं च निर्द्दिष्टम्।
विनोदसञ्चारकेन्द्रेष्वपि पलास्तिकोत्पन्नानां निष्कासनं कर्तुं निर्दिश्यते। एवमेव आतुरालयेषु ५०० तः अधिकं मञ्जाः विद्यते चेत् पलास्तिकवस्तूनां नियन्त्रणमनिवार्यमिति तैरुक्तं वर्तते। भोजनशालास्वपि मलिनीकरण नियन्त्रणायोगेन व्यवस्था कल्पिता।