निस्तन्त्री तरङ्गौषधालयस्य अन्तर्जालव्यापारः दिल्ली उच्चन्यायालयेन निरुद्धम्
नवदिल्ली> निस्ततन्त्रीत्रीतरङ्गौषधालयस्य अन्तर्जालव्यापारः दिल्ली उच्चन्यायालयेन निरुद्धः। निरोधः, विना विलम्बं प्रबलं कर्तुं न्यायालयेन ए ए पि सर्वकारः निर्दिष्टः। प्रमुखः त्वग्रोगचिकित्सकस्य सहीर् अहम्मदस्य परिदेवने आदेशप्रदानावसरे न्यायाधीशेन राजेन्द्र मेनोनेन न्याय. वि के रावुणा च निरोधः आदिष्टः। रुग्णानां सुरक्षां प्रबलीकर्तुं न शक्यते सर्वकारेण यतः बहुभिः औषधसंस्थाभिः अनुज्ञापत्रं विना विक्रयः प्रचाल्यन्ते इति न्यायालयेन निरीक्षितम्।