मिसोरामे सोरामथङ्ग सर्वकारः अधिकारे।
ऐसोल् > मिसोरामराज्ये 'मिसो नेषणनल् फ्रण्ट्' नामकदलस्य नेता सोरामथङ्गः इत्याख्यस्य नेतृत्वे द्वादशाङ्गयुक्तं मन्त्रिमण्डलं ह्यः सत्यप्रतिज्ञामकरोत्। राज्यपालः कुम्मनं राजशेखरः शपथवाक्यं प्रतिज्ञापयत्। मिसो भाषया एव सर्वे शपथाचरणं कृतवन्तः।
तृतीयवारमेव सोरामथङ्गः मुख्यमन्त्रिपदमवाप्नोति। पूर्वं १९९८ तमे , २००३ तमे संवत्सरे च सः मिसोरामस्य मुख्यमन्त्री आसीत्।