स्वास्थ्यं स्वयमेव प्रतिगृह्णातु।
नवदिल्ली> अवसितकालीनानि औषधानि पुनरपि प्रत्यागच्छन्ति इति भीतिदा घटना एव। घटनेयमघिकृत्य पत्र-दूरदर्शनमाध्यमद्वारा बहुवारं आवेदितम्। तथापि विषयेऽस्मिन् कोऽपि परिहारः न अभवत्। विविध राजनैतिक दलानां सर्वकारेण भारतं पालितम्। किन्तु सामान्य जनानां कृते सफलौषधाय कोऽपि प्रक्रमाः सफलतां न प्राप्ताः। इदानीं तु सार्वजनिकस्वास्थ्ये तत्परस्प एकस्य न्यायवादिनः निवेदने दिल्ली उच्चन्यायालयः हस्तक्षेपः आदिष्टः। विषयोऽयम् अतीव प्राधान्यमर्हति, अतः परिहाराय किं कर्तुं शक्यते इति वक्तुं केन्द्रस्वास्थ्यविभागः तथा औषधनियन्त्रणविभागः च उच्चन्यायालयेन आदिष्टौ । सार्वजनिक स्वास्थ्यसंक्षकप्रवर्तकाः बहुकालात् पूर्वम् अस्मिन् विषये आशङ्कां प्रकटितवन्तः आसन्।