भारत-बंग्लादेशसीम्नि विमाने सम्मुखेन अडयताम्।
कोल्कत्ताता> द्वे विमाने सम्मुखेन अडयताम्। व्योमगतागत नियन्त्रकस्य तथा वैमानिकस्य कालोचित-प्रक्रमेण महादुरन्तः निवारितः। बुधवासरे सायं भारत-बंग्लादेशसीमनि आसीत् घटना। द्वावपि इन्टिगो विमाने आस्ताम्I विमाननिस्थानक आयोगेन वार्तेयं बहिः प्रकाशिता। चेन्नैतः गुहावतिं प्रति गम्यमानां तथा गुहावतीतः चेन्नैनगरं प्रति गम्यमानं विमाने भवतः समुखेन अडयताम्। तथा कोल्कत्ता व्योमगतागत नियन्त्रकस्य कालोचित-प्रक्रमेण तथा गुहावती वैमानिकस्य मनोधैर्येण च महादुरन्तः निवारितः।
घटनायाः काले गुहावती विमानं ३५००० पादोन्नत्यां डयते स्म। कोल्कत्ता विमानं तु ३६००० पादोन्नत्याम् आसीत्। किन्तु बंगलादेशस्य व्योमगतागत-नियन्त्रकात् अधः डयितुं निर्देशः लब्ध्वा ३५००० पादोन्नत्यां डयितम्। तदानीमेव उभये विमाने सम्मुखेन अभवताम् ।