प्रधानमन्त्रिणः नरेन्द्रमोदिनः 'मन की बात' ५० तमां सोपानपङ्क्तिं समारूढम्।
नवदिली > भारतस्य प्रधानमन्त्रिणः नरेन्द्रमोदिन: प्रतिमास आकाशवाणीकार्यक्रमः पञ्चाशत् (५०) तमं सोपानं सम्प्राप्तम्। सामान्य जनानां हृदयेषु उपस्थातुं कार्यक्रमोऽयम् उपकरोति। भारतस्य सर्वासु भाषासु कार्यक्रमस्य अनुवादस्य प्रक्षेपणम् आकाशवाणि द्वारा कुर्वन्ति। संस्कृत भाषायामपि अस्ति सम्प्रेषणम्। सुज्ञातः संस्कृतवार्ताप्रक्षेपकः डॉ बलदेवानन्द सागरः भवति संस्कृतानुवादकर्ता। सागर महोदयस्य शब्देन सह प्रधानमन्त्रिणः मनोगतम् सम्प्रतिवार्तायाः अन्तर्जालपुटे अन्तर्जाल-सम्प्रेषणमपि क्रियते।
‘मनोगतम्’ – ५० सोपानस्य संस्कृत भाषिकानुवादः अधः दीयते ।‘मन की बात’ (५०-वीं कड़ी) प्रसारणतिथि: - २५-११-२०१८
[“मन की बात”- “मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ] - भाषान्तर-कर्ता - डॉ.बलदेवानन्द-सागरः
मम प्रियाः देशवासिनः! नमस्कारः | एतच्छताब्दस्य चतुर्दशे वर्षे ओक्टोबर-मासे तृतीय-दिनाङ्के विजयादशमी-पर्वणि ‘मन की बात’-इति कार्यक्रमस्य माध्यमेन सहैव वयं सर्वे सम्भूय, यात्रामेकामारभाम | ‘मन की बात’- इत्यस्याः प्रसारण-यात्रायाः पञ्चाशदङ्काः अद्य पूर्णतां यान्ति | एवं हि अद्यायं सुवर्ण-जयन्ती-आख्यानं वर्तते | एतस्मिन् क्रमे भवतां यानि पत्राणि अवाप्तानि, दूरभाषाकारणाश्च सञ्जाताः, तत्राधिसंख्यं अस्य पञ्चाशदङ्कस्य सन्दर्भे एवास्ति | MyGov-इत्यत्र दिल्ल्याः अंशु-कुमारः अमर-कुमारश्च, पटनातः विकास-यादवः; तद्वद् NarendraModiApp- इत्यत्र दिल्ल्याः मोनिका-जैनः, पश्चिम-बङ्गस्य वर्धमानतः प्रसेनजीत-सरकारः, नागपुरस्य संगीता-शास्त्री चेत्यादयः प्रायेण समानमेव प्रश्नमपृच्छन्, एते कथयन्ति यत् प्रायेण जनाः अधुनातन-प्रविधिना, सामाजिक-सञ्चार-माध्यमैः Mobile Apps-प्रभृतिभिः संयुताः भवन्ति, परञ्च जनैः साकमात्मानं संयोजयितुं भवता रेडियो-इति प्रसारण-माध्यमं कथं चितम्?
भवतामेषा जिज्ञासा सुतरां स्वाभाविकी यत् अद्यतने युगे यदा प्रायेण रेडियो-माध्यमं विस्मारितमासीत्, तदा मोदि-महोदयः रेडियो-माध्यमं कथं स्वीकृतवान्! वृत्तान्तमेकं श्रावयामि | अष्ट-नवत्युत्तरैकोनविंश-शत-वर्षीयोsयं वृत्तान्तः, अहं भारतीय-जनता-दलस्य संघटनस्य कार्यकर्तृरूपेण हिमाचल-राज्ये कार्यनिरतः आसम् | मे-मासीयः कालः आसीत् तथा चाहं सायंकाले यात्रानिरतः सन् कुत्रचित् अन्यस्मिन् स्थाने गम्यमानः आसम् | हिमाचलस्य पार्वत्य-क्षेत्रेषु सायं शैत्यं तु विवर्धते एव, तदा मध्येमार्गं एकस्मिन् ढाबा-इति पथिकापणे चाय-पानार्थम् अरुन्धि | सः लघु-पथिकापणः अवर्तत, एकः एव सः चायं निर्माति विक्रीणाति स्म, आपणोपरि आच्छादक-वस्त्रमपि नासीत्, केवलं मार्गोपान्तं लघु-शकटं स्थापयित्वा स्थितः आसीत् | यदाहं चाय-दानार्थम् आदिशम् तदा सः स्वीय-शकटस्थात् काच-भाण्डात्, मोदकमेकं निष्कास्य अवादीत् – महोदय! चायपानम् अनन्तरम्, प्रथमं मोदकं स्वीकरोतु | मिष्टान्नेन मधुरास्वादम् अनुभवतु | अहमाश्चर्यम् अन्वभवम्, यतो हि मया पृष्टम् – किं भो ! को नाम विशेषः ? गृहे कश्चन उद्वाह-प्रसङ्गो वा? तेनोत्तरितम् - नैव नैव बन्धुवर ! किं भवान् नैव जानाति ? अयि भो! अतितरां प्रसन्नतायाः वृत्तान्तः | सः भूरिशः समुत्साहितः हर्षातिरेक-भरितः चासीत्, मया पृष्टं – किं जातम् ? सः सावेगम् अब्रवीत् यत् अयि भो! अद्य भारतं विस्फोटं व्यदधात् | अहमवदम् – भारतं विस्फोटं व्यदधात् ? नावगच्छामि किमपि! तदा सः स्पष्टमकरोत् – पश्यतु महोदय, रेडियो-प्रसारणं शृणोतु | तदा रेडियो-प्रसारणेषु सः एव विषयः परिचर्च्यते स्म | तदास्माकं प्रधानमंत्री अटलबिहारीवाजपेयी आसीत् – तद्धि परमाणु-परीक्षण-दिनमवर्तत, तथा च, सः सञ्चार-माध्यमेभ्यः वृत्तमेतत् उद्घोषितवान्, सः चायापणिकः रेडियोतः घोषणामेनां श्रुत्वा आनन्द-सन्दोहानुभवेन नृत्यति स्म | नितरामहम् आश्चर्यमन्वभवम् यत् अरण्यस्य निर्जनेsस्मिन् प्रदेशे, हिमाच्छादितेषु पार्वत्य-क्षेत्रेषु सामान्योsयं जनः यो हि चाय-यानं स्थापयित्वा निजकार्यं करोति, आदिनं रेडियो-प्रसारणं शृण्वन् तिष्ठति, तथा च रेडियो-वार्तानां तावान् प्रभावः तस्य मनसि जातः, एतावान् च दृढः परिणामः संवृत्तः | ततः प्रभृति एतत् वृत्तं मम मनसि बद्धमूलं जातं यत् रेडियो-माध्यमं नाम प्रतिजनं सम्बद्धम् | रेडियो-माध्यमं बलवत्तमम् | सञ्चारस्य सहज-प्रापणं तस्य च गहनता ! कदाचित् नान्यत् अपरं किञ्चित् रेडियो-माध्यमेन आत्मानं तूलयितुं प्रभवति | कदाचित् तत्कालादारभ्य मम मनसि एतादृशः संस्कारः समजायत, अस्य माध्यमस्य सामर्थ्यं कदाचित् तत्कालादेव अनुभवन्नासम् | अत एव, यदाहं प्रधानमन्त्रि-पदमारूढवान्, तदेदं स्वाभाविकमासीत् यत् शक्तिमत्तममिदं माध्यमं प्रति ममावधानमभ्यागच्छेत् | एतच्छताब्दस्य चतुर्दशे वर्षे मे-मासे यदाहं ‘प्रधान-सेवक’-रूपेण कार्यभारं सम्भालितवान् तदा मम मनसि समीहासीत् यत् देशस्य एकता, अस्मदीयो भव्येतिहासः, अस्य शौर्यम्, भारतस्य विविधताः, अस्माकं सांस्कृतिक-वैविध्यम्, अस्मदीय-समाजस्य प्रतिश्वासं समाहितानि सद्वृत्तानि, जनानां पुरुषार्थः, समुत्साहः, त्यागः, तपस्या चेत्यादीनि सर्वाणि तथ्यानि, भारतस्यैषा कथा, प्रतिजनं प्रापिता स्यात् | देशस्य दूर-सुदूर-वर्त्तिभ्यो ग्रामेभ्यः महानगराणि यावत्, कृषकेभ्यः आरभ्य युव-व्यवसायि-पर्यन्तं भारतस्यैषा कथा सूचिता स्यात् | एवं हि, एतस्मादेव भावात् ‘मन की बात’-प्रसारणस्य यात्रा आरब्धा जाता | प्रतिमासं लक्षशः पत्राणि पठन्निव, दूरभाषाकारणाः शृण्वन्निव, App- MyGov-चेत्यत्र लब्धाः टीप्पणीः प्रतिक्रियाश्च अवलोकयन्निव, तथा च, एतत्सर्वम् एकस्मिन् सूत्रे संग्रथ्य, सरलं पेशलञ्च च वृत्तान्त-जातम् उदीरयन्निव पञ्चाशदङ्कानामेका यात्रा, एषा यात्रा वयं सर्वे सम्भूय अकुर्म | इतः परम् अग्रेसारिण्या यात्रया सह सिंहावलोकनस्यापि अयमेकोsवसरः | ‘मन की बात’-कार्यक्रमेण वयं भारतस्य प्रतिकोणं यात्रा-सौभाग्यं लब्धवन्तः यस्यां वयम् अस्माकम् अनेकेषां प्रतिभाशालिनां नागरिकाणां असाधारण-कार्याणि अपि अवालोकयाम | ‘मन की बात’-कार्यक्रमः अधुना क्षेत्र-धर्मायुः-राजनीति-सदृंशि सर्वाणि बन्धनानि अतिक्रम्य अग्रेसृतो जातः, अयं हि अस्मदीयः सर्वेषामपि निनादः संवृत्तः | नातिचिरम् आकाशवाणी ‘मन की बात’-प्रसारणस्य सर्वेक्षणमपि अकारयत् | तासु काश्चन तादृशीः प्रतिक्रियाः अवालोकयम् याः हि अतितरां रुचिकर्यः आसन् | येषां जनानां सर्वेक्षणं विहितं, तेषु प्रायेण प्रतिशतं सप्ततिः जनाः नियमितरूपेण ‘मन की बात’-कार्यक्रमस्य श्रोतारो वर्तन्ते | जनानाम् अधिसंख्यम् आमिनोति यत् ‘मन की बात’-प्रसारणस्य सर्वाधिकं योगदानं हि इदमेव यत् अमुना समाजे रचनात्मिका भावना समेधिता | ‘मन की बात’-माध्यमेन बृहत्स्तरेण जनान्दोलनानि प्रोत्साहितानि | #indiapositive – इति विषयमाधृत्य व्यापिनी चर्चापि जाता | इयं हि अस्माकं देशवासिनां मनस्सु स्थिता रचनात्मिकायाः भावनास्ति, सकारात्मिकतायाः भावनायाश्चापि निदर्शनमत्र भवति | जनाः तं निजानुभवमपि संविभाजितवन्तः यत् ‘मन की बात’-प्रसारणेन स्वेच्छयापि किञ्चित्-करणस्य भावना समेधिता | एतादृशं किमपि परिवर्तनं जातं यस्मिन् समाज-सेवार्थं जनाः सोत्साहम् अग्रे आयान्ति | एतद्-दृष्ट्वा सुतरां प्रसीदामि यत् ‘मन की बात’-प्रसारणेन रेडियो-माध्यमं समधिकं लोकप्रियमजायत, परञ्च नैतत् केवलं रेडियो-माध्यममेव यस्य माध्यमेन जनाः अमुना कार्यक्रमेण संयुताः भवन्ति | जनाः दृश्यवाहिनी-एफ्.एम्.रेडियो-जङ्गम-दूरभाष-अन्तर्जाल-फेस्बुक्-सद्यस्क-periscope-इत्येभिः, युगपदेव NarendraModiApp-माध्यमेन चापि ‘मन की बात’-कार्यक्रमे नैजं सहभागित्वं सुनिश्चितं कुर्वन्तः सन्ति | ‘मन की बात’- परिवारस्य भवद्भ्यः सर्वेभ्योsपि सदस्येभ्यः विश्वासाधानार्थम्, अस्य चाङ्गीभवनार्थम् अन्तःकरणपूर्वकं धन्यवादान् वितरामि |
“आदरणीय! प्रधानमन्त्रि-महोदय! नमस्ते ! मम नाम शालिनी, अहं हैदराबादतो वदामि | ममैषा महती जिज्ञासा यत् ‘मन की बात’-कार्यक्रमस्यायं मञ्चः जनेषु अतितरां लोकप्रियः वर्तते परन्तु नाहं स्मरामि यत् भवान् अस्मात् मञ्चात् कदाचिदपि बीजेपी-वा-कांग्रेस्-सदृशान् शब्दान् उल्लेखितवान् | किं भवान् कदाचित् नैवम् अनुभवति यत् मञ्चमेनं राजनीतेः कृते उपयोक्तुं पार्यते, आहोस्वित् मञ्चादस्मात् स्वीय-सर्वकारस्य उपलब्धीः गणयितुं पारयेत्? धन्यवादाः |”
भवत्याः दूरभाषाकारणायै भूरिशो धन्यवादाः | भवत्याः आशङ्का समुचितास्ति | वस्तुतस्तु कश्चन नेता यदा mike-इति ध्वनि-वर्धकम् प्राप्नोति, कोटि-कोटि-संख्यकाश्च श्रोतारो भवन्ति, तर्हि किमतः परम् अभिलष्यते? कानिचन युवमित्राणि ‘मन की बात’-प्रसारणे समाविष्टानां सर्वेषामपि विषयाणामध्ययनम् अकुर्वन् | ते सर्वेषामपि प्रसारणानां कोषीय-विश्लेषणम् अकुर्वन्, ते इदमपि अधीतवन्तः यत् को नाम शब्दः कतिवारम् उच्चारितः, के के च शब्दाः पुनः पुनः अभिभाषिताः, तेषामियमेका उपलब्धिः यत् कार्यक्रमोsयं राजनीतीतरः एवावर्तत | यदा ‘मन की बात’-प्रसारणमारब्धं तदैवाहं निर्णयम् अकरवम् यत् नास्मिन् राजनीतिः स्यात्, न वास्मिन् सर्वकारस्य प्रशंसा भवेत्, नात्र कुत्रचित् मोदी वा भवेत्, तथा च, ममैनं संकल्पं सन्धारयितुं सर्वाधिकं सम्बलम्, महत्तमा च प्रेरणा भवद्भ्यः सर्वेभ्यः प्राप्ता | प्रत्येकमपि ‘मन की बात’-प्रसारणात् प्राक् अधिगम्यमानेषु पत्रेषु, सद्यस्कः टिप्पणीषु, दूरभाषाकारणासु च श्रोतॄणां अपेक्षाः स्पष्टाः भवन्ति | मोदी आगमिष्यति प्रयास्यति च, परञ्च देशोsयं अचलः स्थास्यति, अस्मदीया संस्कृतिः अमृतास्ति | त्रिंशदुत्तर-शत-कोटि-देशवासिनाम् एताः अल्पाः स्वल्पाश्च कथाः सर्वदैव जीविष्यन्ति | देशमेनं अभिनव-प्रेरणया सोत्साहं नूत्नोन्नतिं प्रति अग्रेसारयिष्यन्ति | अहमपि कदाचिद् सिंहावलोकनं करोमि तदा स्वयमपि महदाश्चर्यम् अनुभवामि | कदाचित् कश्चन, देशस्य कस्मादपि कोणात् पत्रं लिखित्वा कथयति – लघ्वापणिकैः, ऑटो-यानचालकैः, शाकविक्रेतृ-सदृशैश्च जनैः साकमस्माभिः नाधिकतरः मूल्य-विषयको विवादः करणीयः | पत्रमहं पठामि, एतादृशः एव भावः कदाचित् कस्मिन्चित् अपर-पत्रे लिखितोsस्ति चेत् तमपि सहैव ग्रथ्नामि | युगपदेव स्वानुभवानामपि वृत्तान्तैक-द्वयोः संविभाजनं भवद्भिः साकं करोमि | भवद्भिः साकं संविभाजयामि, ततः परम्, न जाने कदा एतानि वृत्तानि गृह-कुटुम्बेषु प्रचरन्ति, सामाजिक-माध्यमेषु WhatsApp-इत्यादिषु च परिभ्रमन्ति तथा च, किमप्येकं परिवर्तनं प्रति अग्रेसरन्ति | भवद्भिः प्रेषिताः स्वच्छता-सम्बद्धाः कथाः, सामान्य-जनानाम् अनेकानि उदाहरणानि च, न जाने, कदा प्रतिगृहं स्वच्छतायाः लघुमेकं समङ्कितं दूतं प्रतिष्ठापितवन्ति, यो हि कौटुम्बिकान् अपि अवरोधयति, कदाचिच्च दूरभाषं कृत्वा प्रधानमन्त्रिणमपि आदिशति | कदा कस्यचिदपि प्रशासनस्य तावती शक्तिः भविता यत् selfiewithdaughter-इत्यभियानं हरियाणा-राज्यस्य एकस्मात् लघु-ग्रामात् आरभ्य सम्पूर्णेsपि देशे एव नैव, विदेशेष्वपि प्रसरेत् | समाजस्य प्रत्येकमपि वर्गः, विशिष्टाः जनाश्च सर्वेsपि संयुताः भवेयुः, तथा च, अद्यतन-युव-संततिः अवगन्तुं पारयेत्, तादृश्यां नूतनायां आधुनिकभाषायां समाजस्य विचार-परिवर्तनस्य एतादृशं जागरणं प्रसारयेयुः | कदाचित्तु ‘मन की बात’-प्रसारणस्य प्रहसनमपि विधीयते परञ्च मम मनसि सर्वदैव त्रिंशदुत्तर-शत-कोटि-देशवासिनः निवसन्तो विराजन्ते | तेषां मनः मम मनोsस्ति | ‘मन की बात’-इति प्रसारणं सर्वकारस्य वृत्तं नास्ति – एतत्तु समाजस्य कथ्यमस्ति | ‘मन की बात’-प्रसारणं हि महत्वकाङ्क्षिणः भारतस्य कथ्यमस्ति | भारतस्य मूल-प्राणः राजनीतिर्नैवास्ति, भारतस्य मूल-प्राणः राजशक्तिरपि नास्ति – भारतस्य मूल-प्राणः समाजनीतिः वर्तते समाज-शक्तिः श्चास्ति | समाज-जीवनस्य परसहस्रं पक्षाः भवन्ति, तेष्वन्यतमः पक्षः राजनीतिरपि विद्यते | राजनीतिः कर्तुमकर्तुं समर्था भवति चेत्, तादृशी व्यवस्था स्वस्थ-समाजस्य कृते हितावहा नैवास्ति | कदाचित्तु राजनीतिक-घटनाः राजनीतिक-जनाश्च तावन्तं प्रभवन्ति यत् समाजस्य अन्याः प्रतिभाः अन्ये च पुरुषार्थाः दमिताः जायन्ते | भारत-सदृशस्य देशस्य उज्ज्वल-भविष्यत्कृते जनसामान्यस्य प्रतिभाः पुरुषार्थाश्च समुचित-स्थानमवाप्नुयुः, इदमस्मदीयं सर्वेषां सामूहिक-दायित्वमस्ति, तथा च, ‘मन की बात’-प्रसारणम् अस्यां दिशि नम्रः ईषत्-प्रयासश्च वर्तते |
“नमस्कारः! प्रधानमन्त्रिमहोदय! अहं प्रोमिता-मुखर्जी, मुम्बईतो ब्रवीमि | महोदय ! ‘मन की बात’-प्रसारणस्य प्रत्येकमपि आख्यानं गूढ-प्रबोधेन, सूचनाभिः, रचनात्मक-वृत्तान्तैः सामान्य-जनानाञ्च सम्यक्-कार्यैः सम्भरितं भवति | अतः भवन्तं प्रष्टुं वाञ्छामि यत् प्रत्येकमपि कार्यक्रमात् प्राक् भवान् कियतीं सज्जां करोति?”
दूरभाष-करणार्थं भवत्यै भूयान्सो धन्यवादाः ! भवत्याः प्रश्नः वस्तुतस्तु आत्मीयत्वेन जिज्ञासिता पृच्छास्ति | आमिनोमि यत् ‘मन की बात’-प्रसारणस्य पञ्चाशत्-आख्यानानाम् उत्कृष्टा सिद्धिरियमेव यत् भवती प्रधानमन्त्रिणा साकं नैव, परन्तु यथा कञ्चित् निकटस्थं सहवर्त्तिनं प्रश्नं पृच्छति, बाढम्, इदमेवास्ति लोकतन्त्रम् | भवती यं प्रश्नम् अपृच्छत्, यदि निराडम्बरं उत्तरेयं चेत् तदा वदिष्यामि यत् न किञ्चिदपि सज्जीकरोमि | वस्तुतस्तु ‘मन की बात’-प्रसारणं मम कृते अतितरां सरलं कार्यं वर्तते | प्रतिवारं ‘मन की बात’-प्रसारणात् प्राक् जनानां पत्राणि प्राप्यन्ते | Mygov-NarendraModiMobileApp-इत्यत्र जनाः निज-विचारान् संविभाजयन्ति | एका निःशुल्कं दूरभाष-संख्यास्ति– 1800117800 – एकम् अष्टौ शून्यं शून्यम् एकम् एकं सप्त अष्टौ शून्यं शून्यं च | तत्र दूरभाषं कृत्वा जनाः निज-सन्देशं स्वीय-स्वरेण एव ध्वन्यङ्कितमपि कुर्वन्ति | मम प्रयासो भवति यदहं ‘मन की बात’-प्रसारणात् प्राक् अधिकाधिकानि पत्राणि टिप्पणीश्च स्वयमेव पठेयम् | अहम् अनेकाः दूरभाषाकारणाश्चापि शृणोमि | यथैव ‘मन की बात’-प्रसारण-कालः समीपमागच्छति, तदा तदवधौ भवद्भिः प्रेषितान् विचारान् परामर्शान् चाहं निगूढतया पठामि |
प्रतिपलं मम देशवासिनः मम मनसि विराजन्ते अतो यदापि किञ्चित् पत्रं पठामि तदा पत्र-लेखस्य परिस्थितिः भावश्च मदीय-विचाराणामङ्गानि भवन्ति | तत्पत्रं मम कृते केवलमेकं कर्गदस्य अंशमात्रं नैव भवति, एवमपि अहं प्रायेण चत्वारिंशत्-पञ्चचत्वारिंशत्-वर्षाणि यावत् अखण्डरूपेण परिव्राजकस्य जीवनं यापितवान्, देशस्य जनपदानामधिसंख्यम् अगच्छम्, तथा च देशस्य सुदूरवर्ति-जनपदेषु पर्याप्तकालमहम् अनैषम् एतस्मात् कारणात् यदाहं पत्रं पठामि तदाहं सरलतया तेन स्थानेन तेन सन्दर्भेण चात्मानं संयोजयितुं शक्नोमि, ततः परं, कानिचित् तथ्यानि यथा ग्रामं जनस्य नाम चेत्यादीनि लेख्ये आरोहयामि | सत्यं पृच्छतु चेत् “मन की बात”-प्रसारणे स्वरः मदीयोsस्ति परञ्च उदाहरणानि, भावाः, भावनाश्च मम देशवासिनामेव वर्तन्ते | ‘मन की बात’-प्रसारणस्य कृते योगदान-प्रदात्रे प्रत्येकमपि जनाय धन्यवादान् व्याहर्तुमिच्छामि | एतादृशाः लक्षशो जनाः सन्ति येषां नामान्यहम् अद्यावधि ‘मन की बात’-प्रसारणे नैव प्रासारयम्, परञ्च ते विनैव नैराश्यं निज-पत्राणि, प्रतिक्रियाश्च सततं प्रेषयन्ति – भवतां विचाराः, भवतां भावनाश्च मम जीवने अतितरां महत्त्वमावहन्ति | पूर्णतया विश्वसिमि यत् भवतां सर्वेषां वृत्तानि पूर्वतोsपेक्षया समधिकानि एवाप्स्यामि, तथा च, ‘मन की बात’-प्रसारणं इतोsप्यधिकतरं रोचकं प्रभावकं समुपयोगिनञ्च करिष्यन्ति| एवमपि प्रयत्यते यत् यानि पत्राणि ‘मन की बात’-प्रसारणे नैव समावेशितानि तानि पत्राणि परामर्शान् चाधिकृत्य सम्बद्धाः विभागाश्चापि अवदध्युः | अहम् आकाशवाण्याः, दूरदर्शन-दृश्यवाहिन्याः एफ्.एम्.रेडियो-माध्यमस्य अन्यासाञ्च दृश्यवाहिनीनां, सामाजिक-माध्यमानाञ्च मम सहकर्मिभ्योsपि धन्यवादान् कथयितुमिच्छामि | तेषां परिश्रमेण एव ‘मन की बात’-प्रसारणम् अधिकाधिक-जन-पर्यन्तं प्रयाति|
आकाशवाण्याः वृन्दं प्रत्येकमपि आख्यानम् अनेकासु भाषासु प्रसारयितुं प्रकल्पयति | केचन जनाः कुशलतया क्षेत्रीय-भाषासु प्रायेण मोदिनः स्वर-तुल्येन स्वरेण, तयैव शैल्या ‘मन की बात’-प्रसारणं श्रावयन्ति | एवं रीत्या ते तत्त्रिंशत्-मिनिट्-पर्यन्तं नरेन्द्रमोदिनः एव भवन्ति | तानपि सर्वान् अहं तेषां प्रतिभायै दक्षतायै च वर्धापयामि, तेभ्यश्च धन्यवादान् व्याहरामि | साग्रहं भवतो निवेदयामि यद् भवन्तः सर्वे कार्यक्रममेनं निज-स्थानीय-भाषास्वपि अवश्यं शृण्वन्तु | सञ्चार-कर्मिणां सर्वेषामपि मित्राणां कृतेsपि हार्दिकान् धन्यवादान् वितरामि ये हि निज-निज-वाहिनीभ्यः ‘मन की बात’-कार्यक्रमं नियमितरूपेण प्रसारयन्ति | न कश्चनापि राजनैतिक-जनः सञ्चार-माध्यमेभ्यः कदाचिदपि प्रसन्नो भवति, सोsनुभवति यत्तस्मै प्रसारणेषु अतिन्यूनः कालः प्रदीयते, आहोस्वित् तद्विषयकं प्रसारणं विधीयते चेत् तन्नकारात्मकं भवति परञ्च ‘मन की बात’-इत्यत्र समुत्त्थापिताः अनेके विषयाः संचार-माध्यमैः स्वायत्तीकृताः| स्वच्छता, मार्गसुरक्षा, मादकौषध-मुक्तं भारतम्, selfie with daughter-चेत्यादि-विषयाः सन्ति यान् सञ्चारमाध्यमानि नवाचार-पद्धत्या अभियानरूपेण अग्रेसारितवन्ति | दृश्यवाहिन्यः प्रसारणमिदं सर्वाधिक-जनैः अवलोक्यमानमिति कार्यक्रमत्वेन प्रतिष्ठापितवत्यः – अहं सञ्चार-माध्यमानि हृदयेन अभिनन्दामि | भवतां सहयोगं विना ‘मन की बात’-प्रसारणस्य यात्रेयमपूर्णा एव अभविष्यत् |
“नमस्कारः मोदिमहोदय! अहम् उत्तराखण्डस्य मसूरीतो निधि-बहुगुणा वदामि | अहं युव-सन्तति-द्वयस्य जननी अस्मि | प्रायेण अहम् अवालोकयम् यत् अस्मिन् वयसि स्थितेभ्यः बालेभ्यः नेदं रोचते यत् तैः किं करणीयमिति कृत्वा कश्चन तान् उपदिशेत्? भवतु नाम ते शिक्षकाः वा तेषां मातापितरौ | परञ्च यदा भवतः ‘मन की बात’-प्रसारणं भवति, भवान् च बालकान् सम्बोध्य किमपि वदति, तदा ते हृदयेन तदवगच्छन्ति तथा च, तस्य कार्यान्वयनमपि कुर्वन्ति – अतः भवान् रहस्यमिदं अस्मभ्यमपि संविभाजयिष्यति किमु? धन्यवादः |”
निधि-महोदये, भवत्याः दूरभाषार्थं भूरिशो धन्यवादाः | वस्तुतस्तु मम पार्श्वे न किमपि रहस्यं वर्तते | यत्किमपि करोमि तत्सर्वं कुटुम्बेष्वपि स्यात् भवत्येव | सरलभाषया वदेयं चेत् तदा आत्मानं तस्मिन् युवजने अवतारयितुं प्रयते, आत्मानञ्च तस्य परिस्थितिषु भावयामि, तस्य विचारैः सह किञ्चित् सामञ्जस्यं स्थापयितुं, तेन साकम् अनुभूत्यैक्यञ्च कर्तुं प्रयते | अस्माकं निज-जीवनस्य या प्राचीना सामग्री, यदा सा बाधारूपा नैव भवति चेत् तदा कमपि अवगन्तुं सरलता भवति | कदाचित्तु अस्माकं पूर्वाग्रहाः एव संवादार्थं महत्तम-सङ्कट-रूपाः भवन्ति | स्वीकृत्यस्वीकृत्योः प्रतिक्रियाणाञ्चापेक्षया कस्यचिज्जनस्य स्थितेः अवगमनस्य कृतेsहं प्राथमिकतां ददामि | ममायम् अनुभवः यत् एतादृश्यां स्थितौ प्रतिवक्तापि अस्मान् अनुकूलयितुं विभिन्न-तर्काणाम् आपीडस्य चोपस्थापनापेक्षया अस्माकम् अनुभूत्यैक्यम् अवगन्तुं प्रयतते एतस्माच्च कारणात् सञ्चारान्तरालं समाप्नोति, ततः परं प्रकारान्तरेण तस्य विचारैः साकम् आवां द्वावपि सहयात्रिणौ भवावः | द्वयोरन्यतरः न मनागपि अवगन्तुं पारयति यत् कदा केन अन्यतरेण स्वीय-विचारान् त्यक्त्वा अपरस्य विचाराः स्वीकृताः – स्वायत्ती- कृताश्च | अद्यतन-यूनामियं विशेषता यत् ते तादृशं किञ्चिदपि नैवाचरिष्यन्ति यस्मिन् हि ते स्वयं नैव विश्वसन्ति, तथा च, यदा ते कस्मिन्चित् विश्वसितुमारभन्ते चेत् ततः परं तदर्थं सर्वमपि त्यक्त्वा अनारतं तदनुकुर्वन्ति | प्रायेण जनाः कुटुम्बेषु वरिष्ठानां किशोराणाञ्च सञ्चारान्तरालं चर्चन्ते | वस्तुतस्तु कुटुम्बेषु प्रायेण किशोरैः साकं सम्वाद-परिधिः बहु सीमितो भवति | अधिकतर-कालार्थम् अध्ययनस्य चर्चा जायते आहोस्वित् प्रवृत्तेः वा व्यसनस्य वा जीवन-शैल्याश्च विषयमाधृत्य ‘एवं कुरु, एवं मा कुरु’ – इत्यादि प्रवर्तते | विनैव कामपि अपेक्षाम्, मुक्तमनसा विधीयमानं सम्वादजातम् – शनैः शनैः परिवारेष्वपि अतितरां न्यूनायते, तथा चायमपि चिन्ता- विषयोsस्ति |
अपेक्षापेक्षया स्वीकृतिः, निरसनापेक्षया च चर्चा विधीयते चेत् सम्वादः प्रभावी जायते | पृथक्-पृथक्-कार्यक्रमेषु आहोस्वित् सञ्चारमाध्यमानां माध्यमेन युव-जनैः साकं सततं सम्वादानुष्ठानस्य मदीयो यत्नो भवति | ते यत्किमपि कुर्वन्ति अथवा किं वा विचारयन्ति, तस्मादहं किमपि आत्मानं शिक्षयितुं प्रयते | तेषां पार्श्वे सदा विचार-भाण्डारो राजते | तेsतितरां ऊर्जावन्तः नवाचार-शीलाः अवधानपूर्णाश्च भवन्ति | ‘मन की बात’- माध्यमेनाहं यूनां प्रयासान्, तेषां वृत्तानि, अधिकाधिकं सम्विभाजयितुं प्रयते | प्रायेण परिदेवनं क्रियते यत् युवानोsधिकाधिकान् प्रश्नान् पृच्छन्ति | वदाम्यहं यत् नूनं भद्रमिदं यत् नवयुवानः प्रश्नान् उपस्थापयन्ति | वृत्तमिदं नूनं भद्रं यतो हि एवमामान्यते यत्ते सर्वेषामपि विषयाणाम् आमूलान्वीक्षणं कर्तुमिच्छन्ति | केचिद् वदन्ति यत् युव-जनेषु धैर्याभावो भवति, परञ्चाहम् आमिनोमि यत् यूनां पार्श्वे निरर्थकः कालो नैवास्ति – इदमेव तत्तथ्यं यदद्यत्वे नवयुवकाः समधिक-नवाचारशीलाः भवितुमर्हन्ति, यतो हि, ते कार्याणि त्वरितगत्या विधातुमीहन्ते | वयमनुभवामः यत् अद्यतन-युवानः अतितरां महत्वाकाङ्क्षिणो भवन्ति, तथा च, अनेकान् बृहत्तरान् विषयान् विचारयन्ति | नूनं समीचीनमिदम्, ते बृहत्तराणि स्वप्नानि पश्यन्तु तथा च, बृहत्तराश्च सफलताः अधिगच्छन्तु – परमार्थेन इदमेव अभिनवं भारतं वर्तते | केचन कथयन्ति यत् युवसन्ततिः एकस्मिन्नेव काले अनेकान् विषयान् अवधातुमिच्छति | वदाम्यहं यत् कोsत्र दोषः ? | ते multitasking-इति बहुव्यापारेषु पारङ्गताः सन्ति अत एवमाचरन्ति | यदि वयं परिपार्श्वं पश्येम तदा, भवतु नाम सा सामाजिकोद्यमिता, Start-Ups, वा क्रीडा वान्यानि कानिचित् क्षेत्राणि – समाजे बृहत्-परिवर्तनकारिणो युवजनाः एव सन्ति | ते एव युवजनाः, ये प्रश्नान् अपृच्छन्, बृहन्ति स्वप्नानि द्रष्टुं साहसं च प्रदर्शितवन्तः | यदि वयं यूनां विचारान् क्रियया अन्वेतुं प्रयतेम तथा च, तान् विचारान् अभिव्यञ्जयितुम् उदारं परिवेशं दद्याम, तर्हि ते देशे सकारात्मकं परिवर्तनं विधातुमर्हन्ति – ते एवं कुर्वन्त्यपि |
मम प्रियाः देशवासिनः, गुरुग्रामतो विनीता-महोदया MyGov-इत्यत्र अलिखत् यत् ‘मन की बात’-प्रसारणे मया श्वोsर्थात् नवम्बर-मासीये षड्विंशे दिने संपत्स्यमानस्य ‘संविधान दिवस’-स्य विषये किमपि वक्तव्यम् | तस्याः कथनानुसारेण, दिवसोsयं विशेषः यतो हि संविधान-स्वीकरणस्य सप्ततितमे वर्षे वयं प्रवेक्ष्यामः|
विनीता-महोदये ! भवत्याः परामर्शार्थं भवत्यै भूरिशो धन्यवादाः |
अस्तु, श्वः ‘संविधान-दिवसो’ वर्तते | तासां महतीनां विभूतीनां स्मरण-दिनमस्ति यैः अस्मदीयं संविधानं विरचितम् | विगते शताब्दे ऊन्पन्चात्तमे वर्षे नवम्बरमासे, षड्विंशे दिने अस्मदीयं संविधानमिदं स्वीकृतमासीत् | संविधानस्य प्रारूपार्थम्, अस्य चैतिहासिक-कार्यस्य पूर्णतायै सम्विधान-सभा सप्तदश-दिनोत्तरै- कादश-मासाधिक-द्विवर्षात्मक-कालम् अनैषीत् | भवन्तः कृपया कल्पयन्तु यत् त्रिवर्षाभ्यन्तरमेव एताः महत्यो विभूतयः अस्मभ्यमेतावद् व्यापकं विस्तृतञ्च संविधानमादुः | एतैः यया असाधारण-गत्या सम्विधानं निर्मितं तद्धि अद्यापि काल-प्रबन्धनस्य उत्पादकतायाश्च उदाहरणत्वेन विद्यते | एते अस्मान् अपि स्वीयानि दायित्वानि आभिलेख्य-काले एव पूर्णतां नेतुं प्रेरयन्ति | सम्विधानसभा देशस्य महतीनां प्रतिभानां सङ्गमः आसीत्, तेषु प्रत्येकमपि निज-राष्ट्राय एतादृशमेकं सम्विधानं प्रदातुं प्रतिबद्धमासीत् येन भारतवासिनो जनाः शक्ताः स्युः, निर्धनतमोsपि जनः समर्थः भवेत् |
अस्मदीयस्य सम्विधानस्येदमेव वैशिष्ट्यं यत् अधिकार-कर्तव्य-विषयोsत्र विस्तरेण वर्णितः | नागरिकाणां जीवने एतद्द्वयस्य सामञ्जस्यमेव राष्ट्रमग्रे सन्नेष्यति | यदि वयम् अन्येषाम् अधिकारान् सम्मानयिष्यामः तदास्मदीयाः अधिकाराः स्वयमेव रक्षिताः भवितारः, तथा च एवंरीत्या यदि वयं सम्विधानेन निर्दिष्टानि स्वीय-कर्तव्यानि अनुपालयामश्चेत्, अस्माकम् अधिकाराः स्वतः एव रक्षिताः भविष्यन्ति | साम्प्रतमपि स्मराम्यहं – दशोत्तरोन्विंश-शततमे वर्षे, यदा भारतीयगणतन्त्रस्य षष्टि-वर्षाणि पूर्णानि, तदा गुजराते गजोपरि संविधानं प्रतिष्ठाप्य वयं शोभा-यात्रां व्यवस्थापितवन्तः | युव-जनेषु संविधान-विषयिणीं जागर्तिं विवर्धयितुं, तान् च सम्विधानस्य विविधैः पक्षैः संयोजयितुमयमेकः स्मरणीयः प्रसंगः आसीत् | विम्शत्युत्तर-द्विसहस्रतमे वर्षे गणतंत्र-रूपेण वयं सप्तति-वर्षाणि पूरयितास्मः तथा च द्वाविम्शत्युत्तर-द्विसहस्रतमे वर्षे अस्माकं स्स्वतन्त्रतायाः पञ्च-सप्ततिः वर्षाणि पूर्णानि भवितारः |
आगच्छन्तु, वयं सर्वेsपि स्वीय-संविधानस्य मूल्यानि अग्रेसारयेम तथा चास्मदीये देशे शांतिम्, समुन्नतिम्, समृद्धिञ्च सुनिश्चितां करवाम |
मम प्रियाः देशवासिनः, संविधानसभायाः सन्दर्भे तस्य महापुरुषस्य योगदानं न कदाचिदपि विस्मर्तुं शक्यते यो हि संविधानसभायाः केन्द्रीभूतोsवर्तत | अयं महापुरुषः आसीत् - पूजनीयः डॉ.बाबा-साहेब-अम्बेडकरः | डीसेम्बर-मासे षष्ठे दिने तस्य महापरिनिर्वाण-दिवसोsस्ति | अहं सर्वेषामपि देशवासिनां पक्षतः बाबा-साहब- वर्यं नमामि यो हि कोटि-कोटि-भारतीयान् ससम्मानं जीवनाधिकारं प्रादात् | लोकतन्त्रं नाम बाबा-साहब-वर्यस्य स्वभावे संसक्तमासीत् तथा च सः कथयति स्म यत् भारतस्य लोकतांत्रिक-मूल्यानि कुतश्चित् बहिस्तः नैवागतानि | किं नाम गणतंत्रम् भवति तथा च, का नाम भवति संसदीया व्यवस्था ? एतद्धि भारतस्य कृते किञ्चित् नूतनं वृत्तं नास्ति | संविधानसभायां सोsतितरां भावपूर्णं निवेदनम् अकरोत् यत् एतावत्-संघर्षानन्तरं प्राप्तायाः स्वतंत्रतायाः रक्षा अस्माभिः निज-रक्तस्य अन्तिम-बिन्दु-पर्यन्तं करणीयास्ति | सः इदमपि कथयति स्म यत् वयं भारतीयाः, भवेम नाम पृथक्-पृथक्-पृष्ठभूमिवन्तः परञ्च अस्माभिः देशहितं सर्वोपरि संधारणीयम् | सर्व-प्रथमं भारतमिति - डॉ. बाबा साहेब अम्बेडकरस्य मूलमंत्रमासीत् | पुनरेकवारं पूज्याय बाबा-साहब-वर्याय विनम्रः श्रद्धांजलिः |
मम प्रियाः देशवासिनः, दिवस-द्वय-पूर्वं नवम्बर-मासीये त्रयोविंशतौ वयं सर्वे श्री गुरु नानक देवस्य जयंतीमायोजितवन्तः तथा चागामिनि वर्षे अर्थात् ऊनविम्शत्युत्तर-द्विसहस्रतमे वर्षे वयं तस्य प्रकाशपर्व- इति सार्ध-पञ्च-शतीमा- योजयिष्यामः | गुरु नानक देव-वर्यः सदा अशेष-मानवतायाः कल्याणहेतोः चिन्तित- वान् | सः समाजं सर्वदा सेवा-करुणा-सत्य-कर्म-सौहार्द-मार्गं प्रादर्शयत् | देशः आगामिनि ऊनविम्शत्युत्तर-द्विसहस्रतमे वर्षे तस्य प्रकाशपर्व- इति सार्ध-पञ्च-शती-समारोहं भव्य-रूपेण आयोजयितास्ति, अस्य प्रकाशः न केवलं देशे अशेष-जगत्यपि प्रसरिष्यति | सर्वाण्यपि राज्य-प्रशासनानि केन्द्र-शासित-प्रदेशाश्चापि अवसरमेनं सोत्साहं हर्ष-प्रकर्षेण चायोजयितुमनुरुद्धाः सन्ति | एवं हि गुरोः नानक देवस्य सार्ध-पञ्च-शतवर्षात्मकं प्रकाशपर्व विश्वस्य सर्वेष्वपि देशेषु आयोजयिष्यते | अमुना सहैव, गुरु-नानक-देवेन संबद्धानां पवित्र-स्थलानां मार्गोपरि रेलयानमपि प्रचालयिष्यते | नातिचिरमेव, यदाहं एतद्विषयकम् उपवेशनम् आकारयन्नासम्, तस्मिनेव काले अहं लखपत-साहिब-गुरुद्वारा-स्थलं स्मारितवान् | गुजराते एकोत्तर-द्विसहस्र-तमे वर्षे समापन्नभूकंपावधौ तस्य गुरूद्वारस्य महती क्षतिः सञ्जातासीत्, परन्तु, येन प्रकारेण स्थानीय-जनैः सम्भूय राज्य-प्रशासनेन तस्य जीर्णोद्धार-कार्यं कारितं तद्धि अद्यापि उदाहरणरूपमेवास्ति |
भारतसर्वकारेण महान् एकः महत्वपूर्णः निर्णयो विहितोsस्ति यत् करतारपुर-corridor-इत्यस्य निर्माणं स्यादिति येन अस्माकं देशस्य यात्रिणः सरलतया पाकिस्ताने, करतारपुरे गुरु नानक देवस्य पवित्र-स्थलस्य दर्शनं कर्तुं शक्नुयुः |
मम प्रियाः देशवासिनः, पञ्चाशत्तमस्य आख्यानस्य अनन्तरं वयं पुनरेकवारं मेलिष्यामः आगामिनि ‘मन की बात’-प्रसारणे | विश्वसिमि यत् आद्योsयमवसरः यदा ‘मन की बात’-कार्यक्रमस्य पृष्ठभूम्यात्मकं वृत्तं भवतां समक्षम् उपस्थापितम्, यतो हि भवन्तः भवत्यश्च एतादृशान् एव प्रश्नान् अपृच्छन् परञ्च अस्मदीया यात्रैषा सततं प्रवर्तिता | भवतां साहचर्यं यावदधिकतरं भविता तावती यात्रास्मदीया इतः परमपि गहना घनिष्ठा सर्वेषाञ्च कृते संतोषप्रदा सेत्स्यति | कदाचित्तु जनानां मनस्सु प्रश्नः समुदेति यत् ‘मन की बात’-प्रसारणेन किमहम् अलभम् ? अद्याहं कथयितुं वाञ्छामि यत् ‘मन की बात’-कार्यक्रमस्य याः प्रतिक्रियाः लभ्यन्ते, तासु अन्यतमं मम मनसोsतितरां स्पर्शकरं वृत्तमिदमेव, यत् जनानामधिसंख्यम् एतदकथयत् यत् यदा वयं कुटुम्बस्स्य सर्वैः सदस्यैः सम्भूय समुपविश्य च ‘मन की बात’-प्रसारणं शृण्मः, तदैवं प्रतीयते यत् अस्माकं कुटुम्बस्य अग्रणी अस्माकं मध्ये स्थित्वा अस्मदीयानि एव वृत्तानि अस्माभिः संविभाजयति | यदा वृत्तमिदम् अहं व्यापकरूपेण श्रुतवान् तदाहं संतोषाधिक्यम् अन्वभवम् यत् अहं भवदीयः, भवत्सु एवान्यतमः, भवतां मध्ये एवास्मि, भवन्तः एव मां प्रमुख-पदे अभिषिक्तवन्तः, तथा च एवंप्रकारेण अहमपि भवतां कुटुम्बस्य सदस्यरूपेण ‘मन की बात’-माध्यमेन पुनः पुनः आगमिष्यामि, भवद्भिः साकम् आत्मानं संयोजयिष्यामि | भवतां सुखानि दुःखानि च, मदीयानि सुखानि दुःखानि च, भवतामाकाङ्गक्षाः, मदीयाः आकांक्षाः, भवतां महत्वाकांक्षाः, मामकीनाः महत्वाकांक्षाश्च |
आगच्छन्तु, यात्रामेनां वयं इतोsप्यग्रे सारयेम | भूरिशो धन्यवादाः |
*****
--- भाषान्तर-कर्ता - डॉ.बलदेवानन्द-सागरः
दूरभाषः - ९८१० ५६२२ ७७
अणुप्रैषः - baldevanand.sagar@gmail.com