सङ्घर्षपूरितायाम् अवस्थायां शबरिगिरौ मण्डलकालः आरब्धः।
शबरिगिरिः > वयोभेदं विना महिलानामपि शबरिगिरीशदर्शनं साध्यमिति सर्वोच्चन्यायालयविधिं विरुध्य गिरीशभक्तानां प्रतिषेधे वर्तमाने अस्य संवत्सरस्य मण्डलव्रतकालः सन्निधानं पुलकितवन्तैः शरणमन्त्रघोषैः समारब्धः।
सर्वोच्चनीतिपीठस्य विधिं विरुध्य समर्पिताः पुनःपरिशोधनायाचिकाः वादश्रवणाय जनुवरि २३ दिनाङ्कं प्रति परिवर्तिताः , किं च युवतीप्रवेशविधौ निरासोद्घोषणा च नास्ति इत्यतः आचारसंरक्षणोत्सुकानां भक्तानाम् उपरोधः पूर्वाधिकशक्त्या सन्निधाने परिसरप्रदेशेषु च प्रचलिष्यति इति बुध्या कर्कशं नियन्त्रणमेव सर्वकारेण आयोजितम्। १५,०००अधिकम् आरक्षणबलं सर्वसन्नाहेन विन्यस्तमस्ति। अत एव शबरिगिरौ संघर्षावस्था जायते।