श्रीलङ्का - विधानसभावरोपणं सर्वोच्चन्यायालयेन निरस्तम्।
कोलम्बो > श्रीलङ्कायाः विधानसभां अवारोपयत् इति राष्ट्रपतेः मैत्रीपालसिरिसेनस्य प्रक्रमः सर्वोच्चन्यायालयेन निरस्तः। जनुवरिमासस्य पञ्चमे दिनाङ्केे प्रचाल्यमानस्य विधानसभानिर्वाचनस्य पदक्षेपाः अपि स्थगयिताः।
व्यवहारे अस्मिन् विस्तरः विधिः डिसंबर् सप्तमदिनाङ्के प्रस्तावयिष्यते। विधानसभायाः अवारोपणं विरुध्य 'युणैटड् नेषणल् पार्टी' , 'तमिल् नेषणल् अलयन्स्' , 'जनता विमुक्ति पेरुमुना' इत्यादीनि दलानि सर्वोच्चनीतिपीठम् उपगतवतः।