केरले राज्यस्तरीयः कायिकोत्सवः समारब्धः।
अनन्तपुरी> अतिरूक्षस्य प्रलयदुरन्तस्य पश्चात् केरलानां प्रथमः सार्वजनीनसङ्गमः। कौमारकायिकप्रतिभाधनानां राज्यस्तरीयः कायिकोत्सवः। ६२ तमः विद्यलयीयक्रीडापटूनां वीरताप्रदर्शनं [School Athletic Championship] गतदिने केरल विश्वविद्यालयमहाक्रीडाङ्कणे समारब्धम्। आकेरलं २२०० कौमारताराः नववेगं नवदूरं च प्राप्तुमिच्छुकामाः भागं स्वीकुर्वन्ति। रविवासरे मेलायाः समापनं भविष्यति। प्रथमे दिने ३१अर्थानाम् अन्तिमचरणे समाप्ते एरणमाकुलं जनपदः अग्रिमस्थानमलंकरोति।