श्रीलङ्कन् विधानसभा स्तम्भयते स्म ; राष्ट्रे शासनप्रतिसन्धिः।
कोलम्बो > अपमार्गद्वारा प्रधानमन्त्रिपदात् निष्कासितः रनिल् विक्रमसिङ्गः स्थानत्यागाय न सन्नद्धो अभवत्। विधानसभायां स्वस्य अधीशत्वस्थापनाय सभासम्मेलनम् आयोजयितुं तेन अपेक्षितम्। किन्तु राष्ट्रपतिः मैत्रिपालसिरिसेनः सभां स्तम्भयित्वा आदेशं कृतवान्। विक्रमसिङ्गस्य सुरक्षामपि निराकरोत्।
आत्मने भूरिवर्गस्य सहयोगः वर्तते । अविश्वासपत्रमात्रेणैव आत्मनः निष्कासनं साध्यते इति राजशासनसंविधानमुद्धारयन् विक्रमसिङ्गः अवदत्। २०१९ आर्थिकसंवत्सरस्य आयव्ययपत्रावतरणाय नवम्बर् ५ दिने विधानसभासम्मेलनं विधातव्यमासीत्। अस्य सम्मेलनस्य कालविलम्बः आर्थिकप्रतिसन्धौ पीडयतः राष्ट्रस्य भुयः क्लेशाय भवति।