विदेशेषु अलीकधननिक्षेपं कृतवतः ग्रहीतुकामो भूत्वा आयकर विभागः।
नवदिल्ली> विदेशेषु अलीकधननिक्षेपं, स्थावरजंगमधननिक्षेपं च कृतवन्तः भारतीयाः आयकरविभागेन अन्विष्यन्ते। वैदेशिक प्रयोजकसंस्था द्वारा शताधिकानां भारतीयानां वैदेशिकवित्तलेख-संबन्धीनि विवरणानि अन्विष्यन्ते। नूतननियमानुसारं दोषी इति प्रमाणं लभते चेत् विलम्बं विना दण्डविधयः स्वीकरिष्ये इति अधिकारिणा उक्तम्। नूतननियमे वैदेशिकं आर्थिकविवरणं विज्ञापनीयम्। नो चेत् दशवर्षाणि यावत् कारागारवासः एव दण्डः।