नवकेरलनिर्माणाय आर्थिकसमाहरणं - मन्त्रिणां विदेशगमनम् अपाकृतम्।
मुख्यमन्त्री अद्य यू ए ई राष्ट्रं प्रतिष्ठति।
अनन्तपुरी > प्रलयदुरितानन्तरं नवकेरलनिर्माणाय प्रवासिकेरलीयेभ्यः आर्थिकयोगदानं समाहर्तुं केरलस्य १७ मन्त्रिणां विदेशयात्रा अपाकृता। मुख्यमन्त्रिणं विहाय अन्येषां सर्वेषां मन्त्रिणां विदेशयात्रायै केन्द्र विदेशमन्त्रालयस्य अनुज्ञा न लब्धा इत्येव हेतुः। मुख्यमन्त्री पिणरायि विजयः अद्य यू ए ई राष्ट्रं प्रति प्रस्थास्यति।
मुख्यमन्त्रिणं विना १७ मन्त्रिणः विदेशगमनार्थं केन्द्रसर्वकारस्य अनुज्ञायै अपेक्षिताः यात्रार्थं सन्नद्धाः च आसन्। किन्तु मन्त्रिणां सन्दर्शनम् आयोजितवत्यः प्रवासिकेरलीयसंस्थाः नैकाः अपञ्जीकृताः अनङ्गीकृताः वा इति कारणेन आसीत् केन्द्रसर्वकारस्य अनुज्ञातिरस्कारः।