सि बि ऐ निर्देशकः आलोकवर्मन् स्थानात् परित्यक्तः। अस्तानः विरामे प्राविशत्।
नवदिल्ली> सि बि ऐ संस्थायां परस्पर कलहे जाते सति निर्देशकं-विशिष्टनिर्देशकं च विरुद्ध्य प्रक्रमः समभवत्। अलोकवर्मणं निर्देशकस्य स्थानात् निष्कासितम्। तत्स्थानपालनाय सहनिर्देशकः नागेन्द्ररावु महोदयः आदिष्टः।विशेष-निर्देशकः राकेष् अस्तानः तु विराम स्वीकाराय केन्द्र सर्वकारेण आदिष्टः। सि बि ऐ मध्ये उद्योगिनः मिथः शत्रुता प्रक्रमाः अरब्धाः इति शिरोपीडा परिहाराय आसीत् अयं प्रक्रमाः। ह्यः रात्रौ प्रधानमन्त्रिणा आहूते मेलने आसीत् निर्णयः। प्रत्युपकारशुल्कविवादानुबन्धतया अस्तानं विरुध्य सि बि ऐ संस्थया एव व्यवहारः स्वीकृतः । सन्दर्भेस्मिन् प्रधानमन्त्रिणा नरेन्द्रमोदिना द्वौ निर्देशकौ आहूतवन्तौ।