दिल्लीनगरे पुरातनयानानि रोधनीयानि - सर्वोच्चन्यायालयः।
नवदिल्ली > दिल्लीनगरस्य वायूप्रदूषणम् अतिदारुणावस्थायां भवति इति सर्वोच्च न्यायालयः। प्रदूषणं नियन्त्रितुं प्रदूषणमानदण्डं पालयितुं विमुखानां पुरातनयानानि निवारणीयानि इति राज्यसर्वकारः आदिष्टः। दशसंवत्सरस्य पुरातनत्वं पेट्रोल् यानानां पञ्चदशसंवत्सरस्य पुरातनत्वं डीसल् यानानां च उपयोगस्य समयपरिधिः निर्णीता। तस्मादुपरि पुरातनानां यानानां पट्टिका निर्मीय यन्त्रयानविभागस्य अन्तर्जालपुटे प्रकाशनीयम्। मलिनीकरणनियन्त्रणायोगेन सामूहिकमाध्यमद्वारा मलिनीकरणसमस्याम् अधिकृत्य जनानां पुरतः परिचर्चा करणीया। अवश्यकं चेत् अन्तर्जाल सुविधा वा करणीया इत्यपि न्यायालयेन आदिष्टम्।