यू ए ई राष्ट्रे एकीकृतवाहनचालनप्रमाणपत्रम् परिगणनायाम्।
- रम्या पी यू
दुबाय्> वाहनचालनपरीक्षाम् एकीकृत्य प्रमाणपत्रस्वीकाराय सर्वेषु राज्येषु (एमिरेट्) सामान्यमानदण्डानि प्रचारयितुम् आलोच्यते। राष्ट्रे सप्तराज्येषु अपि वाहनचालनप्रमाणपत्रम् प्राप्तुं विभिन्नमानदण्डानि परीक्षाः च प्रचाल्यन्ते। एतां रीतिमुत्पाट्य प्रमाणपत्रप्राप्त्यै एकीकृतसंविधानस्य निर्माणः परिगणनायामस्तीति खान्टूट्टे प्रचलति सेर्को मिडिल् ईस्टस्य वार्षिकमार्गसुरक्षासम्मेलने अधिकारिणः आवेदयन्। एतदर्थम् आभ्यन्तरमन्त्रालयेन एका समितिः रूपीकृता इति चालकपरिशीलनं तथा गुणनिर्णयविभागस्य नियुक्तनिदेशकः हिन्द् अल् मुहैरी उक्तवान्।