यु पि राज्ये अज्ञातज्वरेण ७९ जनाः मारिताः।
लखनौ> उत्तरप्रदेशे गत षट्सप्ताहाभ्यन्तरे अज्ञातज्वरबाधया ७९ जनाः मृताः। स्वास्थ्यविभागेन अत्यधिका जाग्रता ख्यापिता। जनेभ्यः भीतिं निवारयितुं कर्कशप्रक्रमः अपि स्वीकृतः। स्वास्थ्य-विभागस्य नेतृत्वे जनसञ्चयेषु बोधनप्रक्रिया अपि समारब्धा।
बेरेलिदेशे एव अधिके जनाः मृताः। तस्मिन् २४, बदौणि २३, हर्दोियि१२, सीतापुरं ८, बेरैचि ६, पिलिभित्ति ४, षा जहान् पुरि २ इतिक्रमेण भवति मृतानां संख्या। ज्वरस्य व्यापनं निवारयितुं प्रक्रमाः स्वीकृताः इति स्वास्थ्य विभागेनोक्तम्। मृत्युकारणं मृतानां विवरणानि इत्यादीनि निरीक्ष्यन्ते इति स्वास्थविभागमन्त्री सिद्धार्थनाथसिंहः अवदत्। सर्वकार-भिषग्वराणां संघत्रयं रोगबाधितमण्डलेषु नियुक्तम्। अवश्यकानि औषधानि वितरणाय समाहृतानि च।