अतिवृष्टिः,जलोपप्लवेन तटाकात् रासमालिन्यानि उत्स्रवति।
-बिजिलाकिषोरः
बेङ्गलूरु> सोमवासरे प्रवृत्तातायां अतिवृष्ठ्यां बलन्धूर् तटाकः जलपूर्णः जातः। ततः रासमालिन्यायुक्तजलं वीथ्यां अपतत्। रासमालिन्यस्य दुष्प्रभावेन तटाकस्य जलं फेनकायते । रास प्रवर्तनेन वायुः मलिनीकृतम्, वाहनचालनं दुष्करमभवत्।
नगरे विद्यमान मलिनीकृततटाकः भवत्ययम्। अस्य पार्श्वे १४०० कोटि रूप्यकस्य पानजलपद्धतिः अपि वर्तते। सरसितः अग्निबाधा सर्वसाधारणं भवति। ५००० सैनिकानां सप्तहोरापर्यन्तप्रयत्नेन एव जनुवरिमासे प्रवृत्तातायाः अग्निबाधायाः निवारणमभवत्।