रूप्यकाणां मूल्यशोषणम् - ऋणस्य प्रत्यर्पणे ८०,०००० कोटि रूप्यकाणाम् अधिकभारः।
मुम्बै> रूप्यकाणां मूल्यशोषणेन वैदेशिक- ह्रस्वकालिक ऋणानां प्रत्यर्पणे ७०,००० कोटि रूप्यकाणां अधिकभारः भविष्यति इति भारतीय स्टेट् बैंक संस्थायाः अनुसन्धान विभागेन गण्यते। भारतोद्योग संस्थानां विदेशऋणं विदेशेवर्तमानानां भारतीयानां निक्षेपः च आहत्य प्रत्यर्पणाय २१७६० डोलर् मितं भवतीति २०१७ तमस्य गणना। अस्मिन् २०१८ तमस्य द्वितीय पादे ७.१ लक्षं कोटि रूप्यकाणि प्रत्यर्पणाय आसीत्I डोलर् धनस्य विनिमयमूल्यम् ६५.१ इति परिगण्यते चेत् भवति इदम् ।