मृदंशेषु परिवर्तनं मृत् अत्युष्णपूर्णं जातं बहुत्र।
- रम्या पी यू।
तिरुवनन्तपुरम्> केरलराज्ये महाप्रलयनाशनष्टानन्तरम् मृत् अत्युष्णपूर्णा जायमाना वर्तते तच्च प्रतिदिनं वर्धते अपि। दिने उष्णो वर्धितः अमितमानत्वेन इति प्रतिभासः एतस्य कारणमिति वदन्ति। रात्रौ उष्णः तावता प्रमाणेन न्यूनः च जायते। मृदंशेषु जातं व्यत्ययं ज्ञातुं कार्षिकविश्वविद्यालयः दशमण्डलेभ्यः मृदंशान् स्वीकृत्य अध्ययनं आरभत। एकसप्ताहाभ्यन्तरे एतस्य फलं ज्ञातुं शक्यते।