नेपालाय नौकानिलयम् उद्घाटयन् चीनादेशः।
काठ्मण्डू > नेप्पालराष्ट्रस्य पण्यवस्तुगतागताय चीनाराष्ट्रेण चत्वारः नौकानिलयाः उद्घाट्यन्ते। नेप्पालाय भूरिशः साह्यानि निक्षेपान् च दत्वा अस्य राष्ट्रस्य उपरि भारतस्य अधीशत्वहानिं सम्पादयितुमेव चीनस्य लक्ष्यम्। नेपालस्य पण्यवस्तुवाणिज्याय भारतीयनौकानाम् आश्रयत्वं अनेन प्रायेण न्यूनं स्यात्।
भारतस्य चीेनस्य च सीमांशहरः नेपालः इन्धनसहितानि अवश्यवस्तूनि देशान्तरादानेतुं भारतीयनौकास्थानानि एव आश्रयन्ते स्म। परन्तु २०१५ - १६ कालांशे भारतसीमायाम् आयोजितेन उपरोधेन वस्तुगतागते स्थगिते नेपालः मासान् यावत् इन्धनेभ्यः औषधेभ्यश्च महान्तं क्लेशमनुभवति स्म।तस्मादारभ्य अस्मिन् विषये परिहारमन्विष्यते नेपालेन । गतदिने काठ्मण्डु मध्ये नेपालचीनयोः कार्यकर्तारैः कृतायां चर्चायामेव नौकाश्रयोद्घाटनाय सन्धिः कृतःI