डॉ.बलदेवानन्द-सागरः अभिनन्दितः
वडोदरा > गुजराते वडोदरा-नगरे देवसायुज्य-संस्कृत-प्रतिष्ठानेन आयोजिते कार्यक्रमे ऐषमः राष्ट्रपति-पुरस्काराय चितः डॉ.बलदेवानन्द-सागरः अभिनन्दितः। अवसरेsस्मिन् गुजरात-विधानसभा-सदस्यः श्री शैलेश-मेहता संस्कृत-शिक्षणस्य आवश्यकतां सबलं व्याहरत्। प्रतिष्ठान-प्रमुखः डॉ.प्रफुल्ल-पुरोहितः संस्कृतभाषायाः श्रीमद्भगवद्गीतायाः च प्रशिक्षणार्थं विधीयमानान् प्रयासान् वर्णितवान्। 'सञ्चार-माध्यमेषु संस्कृतम्'' इति विषये भाषमाणः डॉ.सागरः साम्प्रतिके वैद्युदाणविक -सूचना-प्रविधि-प्रमुखे काले विधीयमानं व्यापकं संस्कृत-प्रयोगं सोदाहरणं व्याहरत्।