उत्तराखण्डे षड्विधाः संस्कृतच्छात्रप्रतियोगिताः सम्पन्नाः
-विशेषावेदनम्
अतीव हर्षस्य विषयोऽयं यत् उत्तराखण्डराज्ये छात्राणां कनिष्ठवरिष्ठवर्गयोः 190 संस्कृतनाटक-प्रतियोगिताः, 190 समूहगान-प्रतियोगिताः, 190 नृत्य-प्रतियोगिताः, 190 वादविवाद-प्रतियोगिताः, 190 आशुभाषण-प्रतियोगिताः, 190 श्लोकोच्चारण-प्रतियोगिताः आहत्य 95×12= 1140 संस्कृतच्छात्रप्रतियोगिता अभवन्। एतासु प्रतियोगितासु 72,960 छात्राः भागं ग्रहीतवन्तः। उत्तराखण्ड संस्कृत अकादम्या आयोजिताः षडविधाः संस्कृतच्छात्रप्रतियोगिताः 07-09-2018 दिनांके 95 विकासखण्डेषु सम्पन्नाः।