त्रिंशदधिकशतं कोटि रूप्यकाणाम् पण्यकरसेवनकरे ( GST) अलीकवृत्तिः - प्रमुखः केरळराज्ये गृहीतः।
कोच्ची> दारुफलकनिर्माण संस्थायाः पृष्ठतः त्रिंशत्यधिकशतं कोटि रूप्यकाणां पण्यसेवनकरं चोरणं कृतम्। व्यवहारे अस्मिन् मुख्यदोषी गृहीतः। दारुफलकसंस्थायाः व्याज-विक्रयपत्रं निर्माय अासीत् करचोरणम्। उद्योगसंस्थायाः स्वामिनः नम्नः स्थाने परेषां नाम्नि विक्रयपत्रं निर्माय वस्तूनि प्रेषितवान् आसीत्। सामान्य-जनानां पान्- पत्रसंख्या आधारपत्रसंख्या च स्वायत्तीकृत्य आसित् विक्रयपत्रनिर्माणम्। गतदिने पण्य-सेवनकर-विभागेन कृतान्वेषणे निषाद् नामकः गृहीतः अभवत्। निषादस्य पेरुम्बावूर् देशस्थकार्यालयतः त्रिंशत् (३०) लक्षं रूप्यकाणि तथा विविध-वित्तकोशानां वित्तलेखानां विवरणानि च लब्धानि। अन्वेषणम् अनुवर्तते।