समर्थभारतस्य आधारशिला अस्ति संस्कृतम्- प. नन्दकुमारः
-दिपक शास्त्री
जयपुरम्> संस्कृतं समर्थभारत-निर्माणस्य आधारशिला अस्ति इति संस्कृत-भारत्या: अखिल भारतीय-संपर्कप्रमुखेण श्री नंदकुमारमहोदयेन उक्तम्। प्राचीन ज्ञान-विज्ञानस्य भाषा भारतीय नैतिक मूल्यानाम् रक्षा। एवं सामाजिक उत्थानाय संस्कृतस्य अध्ययनम् अतीव आवश्यकम् अस्ति। अतः भारतराष्ट्रस्य सर्वांगीण उन्नतिहेतुः संस्कृतं पुनः लोकव्यवहारे आनेतुम् प्रयासः कर्तव्यः इत्यपि तेन बोधितम्। जयपुर-महानगरे संस्कृतभारत्या आयोजितानां 51 संस्कृत-संभाषण शिबिराणाम् समापनसमारोहे भाषमाणः आसीत् सः।

अस्मिन् कार्यक्रमे संस्कृत-भारत्या: क्षेत्रीय संगठन मंत्री श्रीहुलास चंद:, श्रीसुदामा शर्मा, जयपुर प्रान्तस्य संपर्क-प्रमुख श्रीरघुवीर प्रसाद शर्मा, जयपुर महानगरस्य अध्यक्ष श्री प्रकाश शर्मा, जयपुर महानगरस्य मंत्री संतोष शर्मा, मास्कोदेशस्य प्रसिद्ध ज्योतिषी श्री काजोल शास्त्री, श्रीमती सीमाशर्मा, प्राचार्य श्री विनोद बिहारी शर्मा, आयोजन के विशिष्ट शिक्षक: मधुसूदन शर्मा, मीठालाल माली, शंकर शर्मा, रवि शर्मा, लोकेश शर्मा, मनोज शर्मा आदि उपस्थिता आसन्।
अंते शिबिर-महाभियानस्य संयोजक: घनश्याम हरदेनियाँ आगंतुकानाम् धन्यवाद ज्ञापनं कृत्वा कार्यक्रमस्य समापनस्य घोषणा कृता।