मशकानां वन्ध्यंकरणेन डङ्किज्वरव्यापनं रोद्धुं शक्यते।
सिड्नि> मशकदंशनेन व्याप्यमानाः डङ्कि सिक्क इत्याख्याः रोगाः मशकानां वन्ध्यंकरणेन निवारयितुं शक्यते इति वैज्ञानिकाः वदन्ति। ओस्ट्रेलिया राष्ट्रस्य सि एस् ऐ आर् ओ, 'जयिंस् कुक्' विश्वविद्यालयः च मिलित्वा कृते अनुसन्धाने एव नूतनज्ञानप्राप्तिः। परीक्षणशालायां पुरुषमशकान् संवर्ध्य प्रजननशक्तिनाशकं वोल् बाच्चि नाम सूक्ष्माणुं मशकानाम् अन्तः प्राविशन्। एतान् मशकान् स्त्री मशकानां समीपं प्रेषयन्ति। एवं जायमानः नूतनाण्डात् कदापि मशकः न जायते इत्यस्ति आवेदनम्।