कर्मयज्ञसाफल्म् - गुहायां संलग्नाः पादकन्दुकदलीयाः १२ ताय्बालकाः परिशीलकश्च बहिर्नीताः।
बाङ्कोक् > आविश्वजनततेः प्रार्थनायाः रक्षादौत्यसङ्घस्य कर्मयज्ञस्य च शुभान्त्यम्। ताय्लान्ट् राष्ट्रस्य उत्तरस्यां तां लुवाङ् नामिकायां गुहायां संलग्नाः १२ पादकन्दुकक्रीडकाः छात्राः तेषां परिशीलकश्च सुरक्षिततया बहिर्नीताः। दशकिलोमीटर् दैर्घ्ययुक्तायां गुहायां गुहामुखात् ४ कि. मी. अन्तः घोरान्धकारे मलपङ्कयुक्ते जलप्रवाहे उन्नते शिलाग्रे प्राणभयेन १८अहोरात्राणि नीताः ते ९० संख्यकानां निमज्जनविदग्धानां नेतृत्वे कृतस्य भगीरथप्रयत्नस्य फलेनैव रक्षिताः! गुहान्तर्भागं प्रति १३ अन्ताराष्ट्रनिमज्जनविदग्धाः ५ नाविकाश्च प्लवनं कृतवन्तः। बहिश्च सर्वसज्जाः रक्षिपुरुषाः सैनिकाश्च उपसहस्रं सन्नद्धभटाः। एतेषां संयोजितपरिश्रमफलेनैव १३ जनानाम् अतिजीवनं साध्यमभवत्।
परन्तु कठिनप्रयत्नस्य मध्ये कश्चन निमज्जनविदग्धः स्वप्राणानपि त्यक्तवान्।