'सम्प्रतिवार्ता' छात्रवार्तावतारिका अनुमोदिता।
कालटी > नवमाध्यममण्डले प्रशस्तिमार्जितायाः सम्प्रतिवार्तायाः ओण् लैन् वार्तावतरणकार्यक्रमे नैकवारं वार्तामवतार्य विचक्षणैः 'श्रेष्ठवार्तावतारिके'ति चिता फात्तिमा मुण्डेत्त् नामिका छात्रायै संस्कृताध्यापकफेडरेषन् संघटनस्य अनुमोदनम्। फेडरेषन् संघटनस्य नेतृत्वे कालट्याम् आयोजिते राज्यस्तरीयवनितासम्मेलने (मातृकं २०१८) कालटी आदिशङ्करजन्मभूमिमन्दिरस्य शृंगेरी मठस्य़ च निदेशकः प्रोफ. ए सुब्रह्मण्यअय्यर् वर्यः फात्तिमायै प्रशस्तिफलकं दत्वा अनुमोदितवान्। नवमाध्यमद्वारा संस्कृतभाषायाः प्रचारणे नववंशश्रेण्याः अभिरुचिः श्लाघनीयेति तेनोक्तम्।
कार्यक्रमे$स्मिन् कालटी ग्रामसभाध्यक्षा के तुलसी, के एस् टि एफ् संघटनस्य राज्याध्यक्षः पि पद्मनाभः, 'मातृकस्य' मुख्यसंयोजिका पी. रती इत्येते सन्निहिताः आसन्।