फ्रान्स् अन्तिमपादं प्रविष्टम्।
मोस्को > २१तमपादकन्दुकमहोत्सवस्य प्रथमे उपान्त्यपादप्रतिद्वन्द्वे फ्रान्स् दलेन बल्जियं दलं पराजितम्। प्रत्यादानरहितेन एकेन लक्ष्यकन्दुकेन आसीत् फ्रान्स् दलस्य विजयः। स्पर्धायाः प्रथमार्धे सामुवल् उम् टिटि नामकेनैव लक्ष्यकन्दुकं प्राप्तम्।